अर्कविवाहम्
अर्कविवाहम्-
"तृतीया मानुषी कन्या नोद्वाह्या म्रियते हि सा| विधवा वा भवेत्तस्मात्तृतीयेऽर्कं समुद्वहेत्|| धर्माब्धौ||"
पुरुष यदि तीसरी मनुष्यकन्यासे विवाह करें तो मृत्युसूचक हैं | इसलिये पुरुषके तीसरे विवाहसे पहले अर्कविवाह करना आवश्यक हैं|चतुर्थादि विवाहार्थं तृतीयेर्कं समुद्वहेत्| आदित्य दिवसे वापि हस्तर्क्षे वा शनैश्चरे||मु-संग्रहे|| तृतीय विवाहात्प्राक् वा विधूरत्व/विवाहभंगदोषापनुत्तये हस्तनक्षत्रयुते शुभलग्नोदये शनिवारे वा रविवारे ग्रामाद्बहिः प्राच्यां उदिच्यां वा पुष्पफलाद्यैर्युतम् अर्कं सम्पाद्य||
वरपिता वा आचार्यः- गणपतिं स्मृत्वा- गंधादिभिः सूर्यं पञ्चोपचारैः सम्पूज्य संक्षिप्तेन वाग्दानं कुर्यात्~ नागवल्लीदले हरिद्राखंड पंचपूगीफलानि गृहित्वा कन्यापिता सूर्याय दर्शयित्वा पठेत् "वाचा दत्ता त्वया कन्या पुत्रार्थे स्वीकृता मया वरावलोकन विधौ निश्चिन्तस्त्वं सुखी भव||
---------------------------------
जनेताचोपनेताश्च यस्य विद्यां प्रयच्छति अन्नदाता भयस्त्राता पञ्चैता पितरः स्मृताः
----------------------------------
अर्क समिपे गत्वा यजमानः पूर्वाभिमुखोपविश्य|| समिपे स्थंडिलं कृत्वा|| आचम्य प्राणानायम्य- पवित्रधारणं च शिखां बध्वा हस्तं प्रक्षाल्य सुमुखश्चेत्यादि पठन् देशकालौ संकीर्तनान्ते- मम तृतीय(प्रथम) मानुषी विवाह (वा- जन्मकुंडल्यां सूचित विधूरत्व वा विवाहभंग) जन्यदोष निवृत्त्यर्थं श्री परमेश्वर प्रीतये अर्कविवाहं करिष्ये||तदङ्गत्वेन गणपति पूजनं पुण्याहवाचनं(कर्मांगदेवता सूर्यनारायणः) मातृकापूजनं नान्दीश्राद्धं आचार्यादि वरणं च करिष्ये|| वरणान्तकर्माणि विधिवत्समाप्य| आचार्य वरणे आचार्यद्वयम् कर्मार्थं स्वकुलाचार्यमेकं कन्यादानार्थं द्वितीयम्|| यजमानः स्वगोत्रप्रवरोच्चारादि पूर्वकं ____गोत्रं_____प्रवरान्वितं____शर्मानामानं ब्राह्मणं कन्यादानार्थं त्वामहं वृणे||वृताय एत्तते पाद्यं/एष ते अर्घ्यः/गंधादिभिःसम्पूज्य माष(५ ग्राम)प्रमाणेन सुवर्णं च वर्तमान नाणकद्रव्यं अर्कविवाहेआवश्यकादधिकं दत्वा संतोष्य||प्रार्थयेत्- कन्यापिता यथा सूर्यो देवानाञ्च प्रजापतिः|तथा त्वमर्कदानार्थमाचार्यत्वं कुरु प्रभो|| एवं संप्रार्थित(कन्यादाता)आचार्यस्ततो वरस्य मधुपर्केणार्चनं कुर्यात्||
अद्येत्यादि०००शुभपुण्यतिथौ अर्कविवाहार्थं आगतं वरं मधुपर्केणार्चयिष्ये... ॐषडर्घ्या भवंत्याचार्य ऋत्विग्वैवाह्यो राजा प्रिय स्नातक इति प्रतिसंवत्सरानर्हयेयुक्ष्यमाणा स्त्वृत्विजः||
आसनोपविष्टवरं प्रार्थयेत्- साधु भवानास्तामर्चयिष्यामो भवन्तम्|
वरः- अहं साधु भवामि मां अर्चय||
कन्यादाताचार्यः- अहं अर्चयिष्यामि| पंचविंशतिकुशात्मकं विष्टरं गृहित्वा- ॐविष्टरो विष्टरो विष्टरः प्रतिगृह्यताम्|
वरः- प्रतिगृह्णामि| इति दक्षिणेन नित्वा" ॐवर्ष्मोस्मि समानानामुद्यतामिव सूर्य्यः|इमन्तमभितिष्ठामि यो मा कश्चाभिदासति|| स्वासने उदगाग्रं निधाय तस्योपरि उपविशति|
कन्यादाताचार्यः- पाद्यपात्रं गृहित्वा ॐपादार्थं उदकं पादार्थं उदकं पादार्थं उदकं प्रतिगृह्यताम्||
वरः- प्रतिगृह्णामिति हस्ते पाद्यपात्रमादाय स्वमेव पादप्रक्षालनं कुर्यात्(ब्राह्मणश्चेद्दक्षिणं प्रथमं पश्चात् वामं इतरेषां सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति|) ॐविराजो दोहोसि विराजो दोहमशीय मयि पाद्यायै विराजो दोहः||
कन्यादाताचार्यः- (द्वितीयः)विष्टरो गृहित्वा ॐ विष्टरो विष्टरो विष्टरः प्रतिगृह्यताम्|
वरः- प्रतिगृह्णामि इत्युक्त्वा विष्टरं नित्वा ॐवष्मोस्मि समानानामुद्यतामिव सूर्य्यः| इमन्तमभितिष्ठामि यो मा कश्चाभिदासति||स्वपादतले भूमौ उदगाग्रं निधाय तस्योपरि पादौ करोति||
कन्यादाताचार्यः- गंधपुष्पाक्षतैर्युतं अर्घ्यपात्रं गृहित्वा " अर्घो अर्घो अर्घः प्रतिगृह्यताम्||
वरः- प्रतिगृह्णामिति अर्घं गृहित्वा शिरसाभिवंदनं कुर्यात् ॐ आपस्थ युष्माभिः सर्वान् कामानवाप्नवानि|| प्राग्वा उदग्वासिंचेत् ॐसमुद्रं वः प्रहिणोमि स्वां योनिमभि गच्छत| अरिष्टाऽस्माकं वीरा मा परा सेचिमत्पयः||
कन्यादाताचार्यः- आचमनीयपात्रं गृहित्वा " आचमनीयं उदकं/आचमनीयं उदकं/आचमनीयं उदकं प्रतिगृह्यताम्|
वरः- तस्माज्जलं गोकर्णकृतदक्षिणहस्तेन वामहस्तेन च स्पृशन् ॐआमागन्यशसास गूं सृेज वरेचसा|तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम्|| शब्दमकुर्वन् ब्राह्मतीर्थेनाचम्य|| तूष्णींद्विराचमेत्||
कन्यादाताचार्यः- काँस्यपात्रे विषममात्रया दधिमधुघृतम् एकीकृत्य तदुपरि द्वितीयं पात्रमधोमुखं निधाय||कांस्यपात्रेण संपुटं गृहित्वा ॐमधुपर्को मधुपर्को मधुपर्कः प्रतिगृह्यताम्|| कांस्यपात्रमुद्घाट्य
वरः- मधुपर्कं प्रतीक्षते " ॐमित्रस्य त्वा चक्षुखा प्रतिक्षे||इति निरिक्ष्य|| ॐदेवस्यत्त्वा सवितुः प्प्रसवेश्विनोर्ब्बाहुभ्यां पूष्णो हस्ताभ्याम्|प्रतिगृह्णामग्ग्नेेष्ट्वास्येन प्राश्नामि|| प्रतिगृह्णामिति दक्षिणेन प्रगृह्य वामेकृत्वा अनामिकया मधुपर्कं त्रिः प्रदक्षिणमालोडयति ॐ नमः श्यावाश्यायान्नशने यत्तऽआविद्धं तत्ते निष्कृन्तामि| अनामिकाअंगुष्ठेनच त्रिर्निरुक्षयति|| तस्य त्रिः प्राश्नाति प्रतिप्राशने मंत्रावृत्तिः ॐमधुव्वाता(१)इति प्रथमवारं/ ॐमधुनक्त०(२)इति द्वितीयवारं/ ॐमधुमान्नो०(३)इति तृतीयवारम् प्राश्नीयात्| सर्वं वा प्राश्नीयात् प्राग्वासंचरे निनयेत्||आचमनं कुर्यात्
कन्यादाताचार्यः- वरवामहस्ते जलं दद्यात् |
वरः- अङ्गन्यासं कुर्यात् ||मुखे ॐवाङ्मऽआस्येस्तु|| नासिकयोः ॐनर्सो मे प्राणोस्तु||नेत्रयोः ॐअक्ष्णोर्मे चक्षुरस्तु||कर्णयोः ॐकर्णयोर्मे श्रोतमस्तु||बाह्वोः ॐबाह्वोर्मे बलमस्तु||उर्वोः ॐउर्वोर्मे ओजोस्तु||सर्वांगेषु ॐअरिष्टानिमेङ्गानि तनूस्तन्वामे सह सन्तु||
कन्यादाताचार्यः- कुछ तृण का उत्सर्ग गायके लिये करैं --> अथ यद्युसिसृक्षेन्मम ____यजमानस्य उभयोः पाप्माहतः||
ॐपरिधास्यै०इति वस्त्रं,ॐयज्ञोपवीतं परमं० इति उपवीतं,ॐसुचक्षा अह० इति गंधं,ॐअनाधृेष्टा० इति अक्षतान्, ॐओषधीः प्रति० इति पुष्पमालां, ॐवसोः पवित्रमसि शत० इति सुगंधितैलं वराय समर्प्य|
हस्ते जलमादाय अनेन मथुपर्कार्चनेन परमेश्वरः प्रीयतां न मम||
ततो वरः अर्कस्य समिपे स्थित्वा अर्कं प्रार्थयेत्- त्रिलोकवासिन् सप्ताश्व छायया सहितो रवे|(प्रथमो)तृतीयोऽद्वाहजं दोषं निवारय सुखं कुरु||
ततो वरः अर्कवृक्षे ॐआकृेष्णेन० इतिमंत्रेण छायया सहितं सूर्यं आवाह्य प्रतिष्ठापयेत्|| ॐभूर्भुवःस्वः छायासहिताय सूर्यनारायणाय नमः इति गुडोदननैवेद्य सहितं षोडशोपचारैः सम्पूज्य|| ततो अर्कं वस्त्रेण सूत्रेण च आवेष्ट्य|| ॐआपोहिष्ठा० इति मंत्रेण अर्कं जलैरभिषिच्य| वरोऽर्कस्य प्रदक्षिणां कुर्यात्- अर्कप्रीतिकरायेयं त्वया सृष्टा सनातनी|अर्कजा ब्रह्मणा सृष्टा ह्यस्माकं परिरक्षतु|| नमस्ते मङ्गले देवि नमः सवितुरात्मजे| त्राहि मां कृपया देवि पत्नी त्वं च इहागता|| इति प्रदक्षिणां कृत्वा....
वरोऽर्क प्रार्थयेत्- अर्कस्त्वं ब्रह्मणा सृष्टः सर्वप्राणिहिताय च| वृक्षाणामादिभूतस्त्वं देवानां प्रितिवर्धनः||तृतीयोद्वाहजं मृत्युं त्वं मे भो सुविनाशय||
तदनन्तरं कर्माचार्य:- अर्कस्य वरस्य च मध्येऽन्तर्पटं धृत्वा सुमंगलपद्यानि पठेत्|| तदेव लग्नं सुदिनं० ततोऽन्तर्पटं उत्तरे निःसार्य| अर्कस्योपरि अक्षतान् दद्यात्- ॐमनोजुति० पुष्पमालामारोप्य|| अर्क्यै पाद्यं श्रीश्चतेति मंत्रेण दत्वा गंधादिभिः सम्पूज्य|| आर्कीं पश्येत्- ॐसमंजंतु विश्वेदेवाः समापो हृदयानिनौ||सम्मातरिश्वा संधाता समुदेष्ट्री दधातुनौ|| इति पश्यन् ||मंगलतंतु बन्धनं कुर्यात् ॐमांगल्य तंतुनानेन०||
ततो कन्यादाताचार्यः- देशकालौ संकीर्त्य अस्य वरस्य तृतीयोद्वाह जनित सर्वारिष्ट विनाशार्थं तथा च श्री सवितृसूर्यनारायण प्रीतये अर्कविवाह विधिना अर्कविवाहं करिष्ये|| इति संकल्प्य वरस्य हस्ते सुप्रोक्षितादिकं कुर्यात् " शिवा आपः सन्त्वित्यादिभिः|| तृतीयोद्वाहजन्य दोषपरिहारोऽस्तु|| इति वदेत्
ततो वरस्य गोत्रोच्चार पूर्वकदान संकल्पः- ____गोत्रस्य_____प्रवरान्वितस्य____वेदशाखाध्यायिनः अमुक नाम्नः प्रपौत्राय____ पौत्राय____पुत्राय____वराय|| काश्यपगोत्रस्य काश्यपवत्सारनैध्रुवेति त्रिप्रवरान्वितस्य आदित्यस्य प्रपौत्रीम् ___ सवितुः पौत्रीम् ___सूर्यस्य पुत्रीम् आर्की नाम्नीं कन्यां सूर्यदैवत्यां भार्यात्वेन तुभ्यमहं सम्प्रददे न मम||इति वरहस्ते सकुशजलं दद्यात्||अर्ककन्यामिमां विप्र यथा शक्ति विभूषिताम्| दास्यामि वराय तुभ्यं दत्तां विप्रसमाश्रय|| कन्यादान साङ्गता सिद्ध्यर्थं सुवर्णं वा तन्निष्क्रयी दक्षिणां वराय तुभ्यमहं सम्प्रददे न मम|| ॐस्वस्ति||वरः-जलाञ्जलिदानम्- ॐ यज्ञो मे कामः समृद्ध्यताम्/ ॐधर्मो मे कामः समृद्ध्यताम्/ ॐयशो मे कामः समृद्ध्यताम् || ततो गायत्रीमंत्रेण ॐपरित्वागिर्व्वणो गिरऽइमा भवन्तु विश्श्वतः|वृेद्धायु मनुवृेद्धयो जुष्टा भवन्तु जुष्ट्टयः||इति मंत्रेण च पञ्चावृता सूत्रेणार्कंमावेष्टयेत् ||पुनः पञ्चगुणेन सूत्रेण अर्कस्य दक्षिणस्कन्धं(शाखां)ॐबृहत्साम नक्षत्र मद्गृद्धवृष्ण्यं त्रिष्टुभौज शुभितमुग्रवीरम्|इन्द्र स्तोमेन पञ्चदशेन मध्यमिदं वातनु सगरेण रक्ष|| ॐ जदाबन्धन्०|| ततो अर्कस्य दिक्षु विदिक्षु च अष्टौ कुम्भान् संस्थाप्य वस्त्रेण त्रिसूत्रेण च आवेष्ट्य हरिद्रागन्धादिन् कुम्भेषु क्षिप्त्वा तेषु कुम्भेषु ॐविष्णवे नमः|| इति नाममंत्रेण महाविष्णुमावाह्य षोडशोपचारैः सम्पूजयेत्||
ततः स्थंडिले पंचभूसंस्कारपूर्वकं अग्निस्थापनं कृत्वा ब्रह्मासनादि आधारावाज्यादिभागान्तं समाप्य "योजकनामाग्निं सम्पूज्य" आज्येन वरो जुहुयात् ॐ सङ्गोभिराङ्गिरसो नक्षमाणो भगऽइवेदर्यमणं निनाय| जनेमित्रोनदम्पतीऽ अनक्ति बृहस्पते वाजया शूँरिवाजौ स्वाहा-इदं बृहस्पतये न मम|| ॐयस्मै त्वा कामकामाय वयं सम्राड् यजामहे| तामस्मब्भ्यं कामं दत्त्वा यथेयं घृतं पिव स्वाहा- इदमग्नये न मम|| ततो व्यस्तसमस्त व्याहृतिभिरष्टोत्तरशतम् २८/८वा होमः- ॐभूःस्वाहा- इदमग्नये न मम(१) ॐभुवः स्वाहा- इदं वायवे न मम(२)ॐस्वः स्वाहा-इदं सूर्याय न मम(३)ॐभूर्भुवःस्वः स्वाहा- इदं प्रजापतये न मम(४) एवं ४×२७=१०८/४×७=२८/४×२=८|| इति हुत्वा भूराद्याः स्विष्टकृदन्ता दशाहुतयः|| ततः संस्रवप्राशनादि प्रणीताविमोकान्तं सर्वं कृत्वा|| वरः अर्कस्य प्रदक्षिणीकृत्य प्रार्थयेत्- मया कृतमिदं कर्म स्थावरेषु जरायुणा| अर्कापत्यानि नो देहि तत् सर्वं क्षन्तुमर्हसि||
तत आचार्यः" ॐऋचंवाचम्" इति शान्त्यध्यायं जपेत्||
ततो वर कर्माचार्याय गोयुग्मं वा तन्मूल्यं वा तन्निष्क्रयी मनसोद्दिष्टं मूल्यं दद्यात्|| यथा काले अष्टौ ब्राह्मणान्भोजयिष्ये इति ब्रह्मभोजन संकल्पं कृत्वा अन्येभ्यो ब्राह्मणेभ्यो दक्षिणां सोपस्करं च दद्यात्|| ततो वरो गणेशं कुम्भस्थितं महाविष्णुं अग्निञ्च विसृज्य || अनेन यथा ज्ञानेन कृतेनार्कविवाह कर्मणा श्री परमेश्वर स्वरूपी श्री सूर्यनारायणः प्रीयतां न मम|| अनेन कर्मणा तृतीयमानुषीविवाह जन्य दोष परिहारोऽस्तु|| विष्णुं स्मरेत्||
ॐस्वस्ति| पु ह शास्त्री|उमरेठ||

टिप्पणियाँ
एक टिप्पणी भेजें