जन्मतःप्रथमाब्दौ मार्कंडेय पूजनम्

षोडशसंस्काराः(जन्मतःप्रथमाब्दौ मार्कंडेय पूजनम्)खंड८४~ जन्म तिथि निर्णयः||निर्णयामृते-
प्रत्यब्दं जन्मतिथौ कार्यः||प्रतिवर्ष जन्मतिथिपर वर्धापन करैं... तिथिद्वैधे यत्र जन्मर्क्षयोगः सा ग्राह्या|| यदि तिथि दो मिलती हों तो जिस तिथिको जन्मनक्षत्रका संयोग हो उसे लैं.... दिनद्वये जन्मनक्षत्र योगसत्त्वासत्त्वयोरौदयिकी द्विमूर्हुताधिका ग्राह्या|| यदि दो दिनोंमें जन्मनक्षत्रका संयोग हो तो जिस दिन उदितकालसे एकघंटा और छत्तीस मिनट् यानी दो मूर्हुत से अधिक समयपर जन्मनक्षत्र हों वह ग्राह्य होगा....द्विमूर्हुतन्यूनत्वे पूर्वा|| अन्यथा दो मूर्हुतसे कम समयपर जन्मनक्षत्र पूर्ण होता हो तो पूर्वका दिन ग्राह्य होगा.... जन्ममासाधिमासत्त्वे शुद्धेमासे प्रत्याब्दिक वर्द्धापनविधिनं त्वधिके||निर्णयामृते|| यदि जन्म-मास का अधिकमास आ गया हो तो शुद्धमासमें वर्धापन करैं मलमास(अधिक)में नहीं...
***************************************
प्रातः काले सशिशुमातापिता अभ्यंगस्नानं शीतोदकेन कृत्वा" नुतनवस्त्रं धारणं कृत्वा पिता प्रातःसन्ध्यादिकं च समाप्य पूर्वाभिमुखो आसने उपविश्य- शांतिसूक्तं पठित्वा आचम्य त्रिःप्राणानायम्य" शिखांबध्वा स्वयमेव भाले तिलकं कुर्यात्" ॐस्वस्ति नऽइन्द्रो० श्रीश्चते लक्ष्मीश्च०| सुमुखश्चेत्यादि पठन् " एतत् कर्म प्रधान देवताः कुलदेवतादि षड्देवता सहित मार्कन्डेयादि आयुष्करदेवताभ्यो नमः|जज्जाग्रतो०इति शिवसंकल्प सूक्तं पठित्वा"
संकल्पः- देशकालौ संकीर्तनान्ते; अस्य(अस्याः)शिशोः दीर्घायुः आरोग्य प्राप्त्यर्थं वर्षवृद्धौ मार्कन्डेय पूजां करिष्ये.....
तदङ्गत्वेन गणपति पूजनं करिष्ये..... गणपतिं षोडशोपचारैः सम्पूज्य.... काष्ठपीठे श्वेतवस्त्रं प्रसार्य
०००००० प्रथमपंक्तिः
००००० २
०००० ३
० ४
तदुपरि अक्षतैर्षोडश पुञ्जेषु प्रत्येकोपरि पूगीफलं निधाय प्रथमपंक्तौ दक्षिणदिशिमारभ्य उदिच्यांत क्रमेण १ॐकुलदेवतायै नमः कुलदेवतां आवा०स्था सर्वत्र
२ (जन्मका नक्षत्र जो हों)ॐ जन्म नक्षत्राय नमः -जन्म नक्षत्रं०
३( पार्वती-शिव)ॐपितृभ्यां नमः -पितरौ ०
४ ॐप्रजापतये नमः-प्रजापतिं०
५ॐभानवे नमः-भानुं०
६ॐविघ्नेशाय नमः-विघ्नेशं० द्वितीय पंक्तौ पूर्वोक्त क्रमेण-
७ॐमार्कण्डेयाय नमः-मार्कण्डेयं०
८ॐ व्यासायनमः-व्यासं०
९ॐ परशुरामाय नमः-परशुरामं०
१०ॐ अश्वत्थाम्ने नमः-अश्वत्थामानं०
११ॐकृपाय नमः-कृपं० तृतीयपंक्तौ एवमेव क्रमेण-
१२ ॐबलये नमः-बलिं०
१३ॐ प्रह्लादाय नमः-प्रह्लादं०
१४ ॐहनुमते नमः-हनुमन्तं०
१५ॐ विभीषणाय नमः-विभीषणं० चतुर्थ पंक्तौ-
१६ॐषष्ठ्यै नमः०षष्ठीं०
इत्यावाह्य ॐमनोजुति० इत्यनेन "कुलदेवतादि षष्ठीपर्यन्तदेवताः" प्रतिष्ठाप्य" कुलदेवतां ध्यायन् अश्वत्थामा बलिर्व्यासो हनुमाँश्च विभीषणः|कृपः परशुरामश्च सप्तैतान्०००||ॐभूर्भुवः स्वः कुलदेवतादि षष्ठीपर्यन्त देवताभ्यो नमः "आसनादि मन्त्रपुष्पाञ्जलि पर्यन्तं सम्पूज्य" षष्ठीदेव्यै दध्योदन नैवेद्यं अन्येभ्यश्च विविधप्रकारं नैवेद्यं समर्प्य"
प्रार्थयेत्- चिलञ्जीवी यथा त्वं भो भविष्यामि तथा मुने||रूपवान्वित्तवांश्चैव श्रिया युक्तश्च सर्वदा||मार्कण्डेय नमस्तेऽस्तु सप्तकल्पान्तजीवन||आयुरारोग्य सिद्ध्यर्थं प्रसीद भगवन्मुने||चिरञ्जीवी यथा त्वं तु मुनीनां प्रवरो द्विज||कुरुष्व मुनिशार्दूल तथा मां चिलजीवीविनम्||मार्कण्डेय महाभाग सप्तकल्पान्त जीवन||आयुरारोग्य सिद्ध्यर्थमस्माकं वरदो भव||इति संप्रार्थ्य"
षष्ठीदेवीं प्रणमेत्- जय देवि जगन्मातर्जगदानन्दकारिणि||प्रसीद मम कल्याणि नमस्ते षष्ठिदेवते||त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च||ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वन्तु तानि मे||
अनया पूजया कुलदेवतादि षष्ठीपर्यन्त देवताः प्रीयन्ताम् न मम||
तिल गुड और १चम्मच गोदुग्ध मिश्र करकें शिशुके हाथका स्पर्श कराकर शिशुको पिलायैं.... मंत्रः- सतिलं गुड सम्मिश्रमञ्जल्यर्धमितं पयः||मार्कण्डेयो वरं लब्ध्वा पिबाम्यायुविवृद्धये||
मया कृतस्य वर्षवृद्धौ मार्कण्डेय पूजन कर्मणः साङ्गता सिद्ध्यर्थं ब्राह्मणान्भोजयिष्ये|| ब्राह्मणेभ्यो दक्षिणां दत्वा आशिषो गृहित्वा यथासुखं विहरेत्||
----------------------------------
खण्डनं नखकेशानां मैथुनाध्वगमौ तथा||आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत्||
नाखुन तथा केश कटवाँना मैथुन यात्रा माँस क्लेशकरना हिंसाकरना यह सब जन्मदिनपर वर्ज्य हैं.
मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा|| अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा||
मरण(स्मशान गमने). जन्मतिथि संक्रान्ति .श्राद्ध .तथा अस्पृश्यको स्पर्श करनेपर गरम पानीसे नहाना नहीं चाहिये...
वर्धापन प्रयोग क्रमशः
ॐस्वस्ति||पु ह शास्त्री||उमरेठ||

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

यज्ञोपवीत 2

संस्कारविमर्श

सर्वरोगहर_अच्युतानंदगोविंदनामजप_विधिः