पुत्र प्राप्ति मे सहायक
अथ अश्वत्थोद्यापनं शौनकीयम् खंड १~ पीपलके रोपणसे आठवें वर्षमें बारहवें अथवा ग्यारहवें वर्षमें उत्तरायण(मकरके सूर्यसे मिथुनके सूर्य के )मासोंमें,गुरु या शुक्रके उदयमें ,गुरु शुक्र दौनो एकसाथ अस्तके वर्ज्य,माघ फाल्गुन चैत्र वैशाख शुक्लपक्षमें शुभ नक्षत्रोंमें, शुभवार,शुभतिथि तथा शुभ लग्नोंमें, उद्यापन करैं.... अधिकारी जिसने पीपलवृक्ष का रोपण करके बोना हो! वह या उसका उत्तराधिकारी अन्य नहीं.
अश्वत्थस्य चतुरस्रां वेदिकां विधाय" पीपलकी आजुबाजु मिट्टी तथा ईंटोसे चतुरस्र वेदि बनायें..अश्वत्थमूले वृत्तं चतुरस्रंवाऽलवालं कृत्वा" पीपलके मूलकी जगहपर वृत्त अथवा चतुरस्र गमला बनाकर," तत्र तुलसींप्लक्षशाखां शमीं च रोपयित्वा" उस गमलेमें तुलसी पलाश शाखा तथा शमी को रोपैं.|अश्वत्थ वेदिकायां चतुरस्रं समन्ताच्चतुर्द्वारं चतुर्हस्तमधिकं वा मंडपं" मध्यमें पीपल आ जायें ऐसे पीपलकी चारों और घेरावावाला ४/४/४=१६ हाथका मंडप अथवा आवश्यकतानुसार चारद्वारवाला रचैं.| अश्वत्थात्पूर्वे पश्चिमे उत्तरे वा उक्त लक्षण मंडपं अन्यं वा कृत्वा|| पीपलकी वेदिकासे पूर्व उत्तर या पश्चिममें चारहाथका चारद्वारवाला अथवा छाया मंडपका निर्माण करैं.|| पीपलकी पूर्व दक्षिण पश्चिम तथा उत्तरमें एक एक हाथके चारकुंड करैं....
विधानम्*~ स्वगृहे प्रातःनित्यकर्मं संक्षिप्तविधानेन विधाय" आचम्य प्राणानायम्य- देशकालौ संकीर्त्य मम आत्मनः पुण्यातिशय आयुष्य यशः पुत्रपौत्र पशु वित्त धनधान्य विद्या कुलाभिवृद्ध्यर्थं कुलकोटि सहित स्वर्गलोक प्राप्त्यादि ऐहिक आमुष्मिक फलप्राप्त्यर्थं दशपूर्वान् दशपरान् आत्मना सह एकविंशति पुरुषान् उद्धर्तुं विष्णुपद प्राप्त्यर्थं तथा च अश्वत्थस्य ब्रह्मत्व शांति अभीष्टफल दातृत्व अद्य अनेकगुण संपत्त्यर्थं (काम्य संकल्पे- पुत्रकामौ" मम इह जन्मनि जन्मांतरे वा नाना निमित्त उपार्जित संतति प्रतिबंधक अदृष्ट निरसन पूर्वकं सत्पुत्रावाप्तये) एकाहाद्यधिवास प्रकारेण अश्वत्थोद्यापनाख्यं कर्म करिष्ये....
तदङ्गत्वेन स्वगृह्योक्त मार्गेण गणपतिपूजनं पुण्याहवाचनं(कर्मांग देवता अश्वत्थस्वरूपी महाविष्णुः) मातृकापूजनं नान्दीश्राद्धं आचार्यादिवरणं वर्द्धिनीकलशपूजां च करिष्ये..
तानि कर्माणि विधिवत्समाप्य"|| ततः स्वगृहे एव ग्रहमखं विधाय||
ततः सर्त्विक् सपत्नीकोयजमानः वर्धिनी कलशहस्तः "ॐभद्रंकर्णेभिरिति मंत्रेण मंगलतूर्य घोषेण सहाश्वत्थ प्रादक्षिण्येन मंडपपश्चिद्वारं आगत्य तत्र सपरिवारां भूमिं सम्पूज्य मंडपं प्रविश्य कलशं अश्वत्थ समिपे निधाय निर्ऋति वरुणयोर्मध्ये उपविशेत्|| तत आचार्यः- अश्वत्थोद्यापन कर्मणि वृतोहं आचार्य कर्म करिष्ये.... इति संकल्प्य| दिग्रक्षणं पञ्चगव्यकरणं च साधितपञ्चगव्येन कुशैः सर्वत्र प्रोक्षणं विधिवत् कृत्वा|| ॐस्वस्त्ययनंता० देवाआयांतु यातुधाना अपयान्तु विष्णोदेवयजनं रक्षस्व|| भूमौ प्रादेशं कुर्यात्|| मंडपे प्राग्द्वारे अमंत्रकं चूतपल्लवतोरणं/ दक्षिणे प्लक्षपल्लवतोरणं/ पश्चिमे वट् पल्लवतोरणं/ उत्तरे अशोकपल्लवतोरणं बध्वा|| तथैव प्रागादि द्वारेषु पूर्वे श्वेत दक्षिणे कृष्ण पश्चिमे हरित उत्तरे रक्त पताकाः अश्वत्थ शिरसि महांतं चित्रध्वजं च बध्वा|| तथैव प्रागादि द्वार चतुष्टये वेदादिक्रमेण द्वौ द्वौ वा एकमेकं वा ब्राह्मणं जपार्थं वृणुयात्||
शौनकोक्तं अश्वत्थोद्यापनम् खंड२~ ततो आचार्योश्वत्थस्य हरिद्रा तैलरोपणादि लौकिकं विधाय, अश्वत्थ वेदिकायां ईशानप्रदेशे सर्वतोभद्रं विरच्य, ब्रह्मादिदेवतास्थापनं करिष्येति संकल्प्य, सर्वतोभद्रोक्तप्रकारेण ब्रह्मादिनावाह्य च सम्पूज्य| तदुपरि अक्षतपुंजे पूर्णपात्रान्त विधिना कलशं संस्थाप्य||तस्मिन् सतीर्थवरुणं आवाह्य च सम्पूज्य||देवदानव संवादे मथ्यमाने० इत्यादिभिःसंप्रार्थ्य.पूर्णपात्रोपरि कृताग्न्युत्तारणप्राणप्रतिष्ठापन सौवर्णीप्रतिमायां " ॐवनस्पते शतवल्श०(यजुः ॐअश्वत्थेवो०)इति मंत्रेण अश्वत्थ नारायणं आवाह्य| तत "ॐइदंविष्णुरिति वासुदेवं,तद्वामतः ”ॐअधस्यायोषणा मही प्रतीचीवशमश्वयं| अधिरुक्माविनीयते|| इति रुक्मणीं, तद्दक्षिणतः"ॐसत्या सत्येभि र्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः|| रजद्दृळहानि दददुस्रियाणां प्रतिगाव उपसंवावशंत||इति सत्यभामां, ॐप्रक्षोद साधाय सा सस्र एषा सरस्वती धरुण मायसी पूः|प्रबाबधाना रथ्येवयााति विश्वा अपो महिना सिंधु रन्याः||इति सरस्वतीं,ॐआतून इंद्र०||इति गणपतिं चावाह्य|| पौरुषेण(पुरुषसूक्तस्य मंत्रैः)वासुदेवादिभ्यो नमः इति षोडशोपचारैः सम्पूज्य|| ततो अश्वत्थ परितः पीठसमं ततो वा अष्टौ कलशान्स्थापन प्रकारेण संस्थाप्य||ततो पूर्वकलशे " आपोहिष्ठेति नवर्चेन सूक्तेन शुद्धोदकमापूर्य||तस्य "आपोहिष्ठेति नवर्चसूक्तम्" आपोहिष्ठेति नवर्चस्य सूक्तस्यांबरीषः सिंधुद्विप आपो गायत्री पंचमी वर्धमाना सप्तमी प्रतिष्ठा अंत्येद्वे अनुष्टुभौ शुद्धोदकमापूरणे विनियोगः- ॐआपोहिष्ठामयो भुवस्तान ऊर्जे दधातन|महेरणाय चक्षसे||१||यो वः शिवतमो रसस्तस्य भाजयते हनः|उशतीरिव मातरः||२||तस्मा अरंगमामवो यस्यक्षयाय जिन्वथ|आपो जन यथा च नः||३|| शं नो देवी०||४||ईशानावार्याणां क्षयंतीश्चर्षणीनाम्|आपोयाचामि भेषजम्||५||अप्सु मे सोमो अब्रवीदंतर्विश्वानि भेषजा|अग्निं च विश्व शं भुवम्||६|| आपः पृणीत भेषजं वरूथं तन्वे३मम|ज्योक्च सूर्यं दृशे||७||इदमापः प्रवहत यत्किंचदुरितं मयि|यद्वाहमभिदु द्रोह यद्वा शेप उतानृतम्||८||आपो अद्यान्वचारिषं रसेन समगस्महि|पयस्वानग्न आगहितंमासं सृजवर्चसा||९|| द्वितीय कलशे आनोभद्रा इति दशर्चेन गंधोदकमापूरयेत्|| तृतीय कलशे स्वस्तिनो मिमीतेति पंचर्चेन क्षीरोदकमापूरयेत्|| स्वस्तिनो मिमीतासूक्तम्~ ॐस्वस्तिनो मिमीता मश्विना भगःस्वस्ति देव्य दितिरनर्वणः|स्वस्ति पूषा असुरो दधातुनः स्वस्ति द्यावा पृथिवी सुचेतुना||१||स्वस्तये वायु मुपब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः|बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः||२||विश्वेदेवानो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये|देवा अवन्त्वृभवः स्वस्तये स्वस्तिनो रुद्रः पात्वं हसः||३||स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति|स्वस्ति न इंद्रश्चाग्निश्च स्वस्तिनो अदिते कृधि||४||स्वस्ति पन्थामनुचरेम सूर्या चन्द्रामसाविव|पुनर्ददताघ्नता जानता संगमे महि||५||
शौनकोक्तं अश्वत्थोद्यापनम् खंड३~ चतुर्थकलशे पंचगव्यं शन्न इंद्राग्नीति पंचदशर्चसूक्तेन~> शं न इंद्राग्नी भवता मवोभिः शं न इंद्रा वरुणाराहव्या|शमिंद्रा सोमा सुविताय शं योः शं न इंद्रा पूषणा वाजसातौ||१||शं नो भगः शमुनः शं सो अस्तु शं नः पुरंधिः शं मुसंतुरायः|शं नः सत्यस्य सुयमस्य शं सः शं नो अर्यमा पुरुजातोऽस्तु||२||शं नो धाता शमुधर्तानो अस्तु शं न उरूची भवतु स्वधाभिः|शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि संतु||३||शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शं| शं नः सुकृतां सुकृतानि संतु शं न इषिरो अभिवातुवातः||४||शं नो द्यावापृथिवी पूर्वहूतौ शमंतरिक्षं दृशयेनो अस्तु||५||शं न ओषधीर्वनिनो भवंतु शं नो रजसस्पतिरस्तु जिष्णुः|शं न इंद्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः||६||शं नो रुद्रो रुद्रेभिर्जलाषः शं न स्त्वष्टाग्नाभिरिह शृणोतु|शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमुसंतु यज्ञाः||७||शं नः स्वरूणांमितयो भवंतु शं नः प्रस्वः१शम्वस्तु वेदिः| शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवंतु||८|| शं नः पर्वता ध्रुवयो भवंतु शं नः सिंधवः शमुसंत्वापः|शं नो अदितिर्भवतु व्रतेभिः शं नो भवंतु मरुतः स्वर्काः||९||शं नो विष्णुः शमु पूषानो अस्तु शं नो भवित्रं शम्वस्तु वायुः|शं नो देवः सवितात्रायमाणः शं नो भवंतूषसो विभातीः||१०||शं नः पर्जन्यो भवंतु प्रजाभ्यः शं नः क्षेत्रस्यपतिरस्तु शंभुः|शं नो देवा विश्वेदेवा भवंतु शं सरस्वती सरधीभिरस्तु||११||शमभिषाचःशमुरातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः|शं नः सत्यस्यपतयो भवंतु शं नो अर्वंतः शमुसंतु गावः||१२||शं न ऋभवः सुकृतः सुहस्ताः शं नो भवंतु पितरो हवेषु|शं नो अजएकपाद्देवो अस्तु शं नोहिर्बुध्न्यः१ शं समुद्रः||१३||शं नो अपान्नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा|आदित्या रुद्रा वसवोजुषंतेदं ब्रह्म क्रियमाणं नवीयः||१४||शृण्वंतुनो दिव्याः पार्थिवासो गोजाताऽउतये यज्ञियासः|ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृताऽऋतज्ञाः|ते नो रासंतामुरुगायमद्य यूयं पात स्वस्तिभिः सदानः||१५||
पंचमकलशे हरिद्रोदकं एतोन्विन्द्रमिति तृचेन~> ॐएतोन्विंद्रस्तवाम शुद्धं शुद्धेन साम्ना|शुद्धैरुक्थैर्वा वृध्वांसं शुद्ध आशीर्वान्ममत्तु||१||इंद्र शुद्धोनऽआगहि शुद्धः शुद्धाभिरूतिभिः|शुद्धो रयिंनिधारय शुद्धोममद्धि सोम्यः||२||इंद्र शुद्धोहिनो रयिं शुद्धो रत्नानि दाशुषे|शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजंसिषाससि||३|| षष्ठकलशे सर्वौषध्युदकं समुद्रज्येष्ठा इति चतसृभिः~> ॐसमुद्र ज्येष्ठाः सलिलस्य मध्यात्पुनानायंत्यनि विशमानाः| इंद्रो या वज्री वृषभो ररादता आपो देवीरिहमामवंतु||१||या आपो दिव्या उतवा स्रवंति खनित्रिमा उतवायाःस्वयंजाः| समुद्रार्थायाः शुचयः पावकास्ता आपो देवीरिहमामवंतु||२||या सां राजा वरुणो यातिमध्ये सत्यानृते अवपश्यंजनानां|मधुश्चुतःशुचयोयाः पावकास्ता आपो देवीरिहमामवंतु||३||या सु राजा वरुणो यासुसोमो विश्वेदेवा यासूर्जं मदंति| वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवी रिहमामवंतु||४||
सप्तमकलशे कुशोदकं ॐया आपोदिव्या०| इतिमंत्रेण, अष्टमकलशे कुशोदकं प्रसुवआप इतिनवर्चेन~> ॐप्रसुव आपो महिमान मुत्तमंकारुर्वोचाति सदने विवस्वतः|प्रसप्त सप्तत्रेधाहिचक्रमुः प्रसृत्वरीणामति सिंधु रोजसा||१||प्रतेरदद्वरुणो यातवे पथः सिंधो यद्वाजाँऽअभ्यद्रवस्त्वं|भूम्या अधिप्रवता या सिसानुनायदेषामग्रं जगतामिरज्यसि||२||दिविस्वनो यतते भूम्यो पर्यनंतं शुष्ममुदियर्ति भानुना|अभ्रादिव प्रस्तनयंति वृष्टयः सिंधुर्यदेति वृषभो नरोरुवत्||३||अभित्वा सिंधो शिशुमिन्न मातरोवाश्रा अर्षंति पयसेवधेनवः|राजेवयुध्वानयसि त्वमित्सिचौ यदा सामग्रं प्रवतामि नक्षसि||४||इमंमे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या|असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया||५||तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्यात्या|त्वं सिंधो कुभ या गोमतीं क्रमुंमेहत्न्वा सरथंयाभिरीयसे||६||ऋजीत्येनी रुशती महित्वा परिज्रयांसि भरते रजांसि|अदब्धा सिंधुरपसामपस्तमाश्वान चित्रा वपुषीवदर्शता||७||स्व श्वा सिंधुः सुरथाः सुवासाः हिरण्ययी सुकृता वाजिनीवती|ऊर्णावती युवतिः सीलमावत्युताधिवस्ते सुभगा मधु वृधं||८|| सुखंरथं युयुजे सिंधुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ|महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः||९||
महीद्यौरित्यादिना पूर्णपात्रान्तं कृत्वा तेषु वरुणं आवाह्य संपूज्य" तत्र पूर्वादि क्रमेण इंद्राद्यष्टान् तत्तन्मंत्रैरावाह्य संपूजयेत्|| ततो अश्वत्थं पुरुषसूक्तेन नारायणाथर्वशिरसा संसिच्यपंचामृताभिषेकं च कृत्वा काषायवस्त्रयुग्मेन च संवेष्ट्य||गंधादिभिः संपूज्य||ब्रह्मनारद संवादे अश्वत्थस्तोत्रेण स्तुवीत्||नारद उवाच- अनायासेन लोकोयं सर्वान् कामानवाप्नुयात्|सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह||ब्रह्मोवाच||
श्रृणु देवमुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम्|यत्प्रदक्षिणतो लोकःसर्वान्कामान्समश्नुते||१||अश्वत्थाद्दक्षिणे रुद्रः पश्चिमेविष्णुरासथितः| ब्रह्माचोत्तर देशस्थः सर्वेत्विन्द्रादि देवताः||२|| स्कंधोपस्कंधपत्रेषु गो विप्र मुनयस्तथा|मूलं वेदाः पयो यज्ञाः संस्थिता मुनि पुंगव||३||पूर्वादि दिक्षु संयाता नदी नद सरोऽब्धयः|तस्मात्सर्व प्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः||४||त्वं क्षीर्य फलकश्चैव शीतलश्च वनस्पते|त्वमाराध्य नरो विंद्यादैहिकामुष्मिकं फलम्||५||चलद्दलाय वृक्षाय सर्वदाश्रित विष्णवे|बोधितत्त्वाय देवाय ह्यश्वत्थाय नमो नमः||६|| अश्वत्थ यस्मात्त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले|अतः श्रृतस्त्वं सततं तरूणां धन्योऽसि चारिष्ट विनाशकोऽसि||७||क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते|सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निवेशताम्||८||एकादशात्मकरुद्रोऽसि वसुनाथ शिरोमणिः|नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल||९||अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः|हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते||१०||आयुर्बलं यशोवर्चः प्रजाःपशुवसुनि च|ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते||११||सततं वरुणो रक्षेत्त्वामाराद् वृष्टिराश्रयेत्|पतितस्त्वां निषेवंतां तृणानि सुखमस्तु ते||१२|| अक्षिस्पदं भुजस्पदं दुःस्वप्नं दुर्विचिंतनम्|शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो||१३||अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने|नमो दुःस्वप्ननाशाय सुस्वप्न फलदायिने||१४||मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे|अग्रतःशिवरूपाय वृक्षराजाय ते नमः||१५||यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते||यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम्||१६||अश्वत्थ सुमहाभाग सुभगप्रियदर्शन|इष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम्||१७||आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसंपदम्|देहि देव महावृक्ष त्वामहं शरणं गतः||१८||ऋग्यजुःसाममंत्रात्मा सर्वरूपी परात्परः|अश्वत्थो वेदमूलोऽसावृषिभिःप्रोच्यते सदा||१९||{*ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः|आवृत्य लक्षसंख्यं च स्तोत्रमेतत्सुखी भवेत्||२०||ब्रह्मचारी हविष्याशी त्वधःशायी जितेंद्रियः|पापोहतचित्तोऽपि व्रतमेतत्समाचरेत्||२१||एकहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम्||अर्चेत्पुरुषसूक्तेन प्रणवेन विशेषतः||२२||*मौनी प्रदक्षिणं कुर्यात्प्रागुक्त फलभाग्भवेत्|विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात्||२३||#पदे पादांतरं गत्वा करचेष्टा विवर्जितः||वाचि स्तोत्रं मनो ध्याने चतुरंगं प्रदक्षिणम्#||२४||अश्वत्थःस्थापितो येन तत्कुलं स्थापितं ततः|धनायुषां समृद्धिस्तु नरकात्तारयेत्पितॄन्||२५||अश्वत्थमूलमाश्रित्य शाकान्नोतकदानतः|एकस्मिन्भोजिते विप्रे कोटिब्राह्मणभोजनम्||२६||अश्वत्थमूलमाश्रित्य जप होम सुरार्चनात्||अक्षयं फलमाप्नोति ब्रह्मणो वचनं यथा||२७||} एवमाश्वासितोऽश्वत्थः सदाऽऽश्वासाय कल्पते||यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात्||२८||छिन्नो येन वृथाऽश्वत्थश्छेदिताः पितृदेवताः||अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः||२९||
---------------------------------
पूर्वकुंडे विधिवद बलवर्धननामाग्निं प्रतिष्ठापयेत्|| ईशान्यां वेदिकायां ग्रहमंडलदेवतानावाह्य संपूज्य||
शौनकोक्तं अश्वत्थोद्यापनम् खंड ४~
ऋग्वेदे अग्निमुखम्*
| ~~~~~< उदगाग्राकुशाः
! पूर्वाग्राकुशाः
(१)अग्निस्थापन तक मौन होकर; गोमयसे प्रदक्षिण रितिसे कुंडमें जमीनपर लेपन करैं"(गोमयेन प्रदक्षिणमुपलिप्य")कुंडके अन्दर जमीनपर दक्षिणमें ८ उत्तरमें २ पश्चीममें ४ पूर्वमें आधे अंगुलकी जगह छोडनेके लिए रौली या हल्दीसे मण्डल करैं.
__________
! ०!! !
!२ !८
!_____४____!
दक्षिणेष्टौ उदीच्यां द्वे प्रतीच्यां अर्धं इति अंगुलानि त्यक्त्वा" मंडलमें पश्चीममें दक्षिणसे उत्तरतक लंबी प्रादेश प्रमाणसे १ रेखा कुशसे खीचें." (दक्षिणोपक्रमां उदक् संस्था प्रादेशमात्रा मेकालेखा)"उस खीची हुई रेखाकी दायीं तथा बायीं और प्रादेशमात्रकी पश्चिमसे पूर्वकी और दो रेखा खींचे." (तस्यादक्षिणोत्तरयोः रेखया असंसृष्टे प्रादेशसंमिते द्वे)" उन दोनों रेखाओंके बीच दायेसे बायें एकदुसरेको छु न पायें ऐसे तीन रेखायें पश्चिमसे पूर्वकी और खींचे." (तयोर्मध्ये परस्परमसंसृष्टा उदक् संस्थाः प्रागायताः प्रादेशसंमिता स्तिस्रइति षड्लेखा यज्ञिय शकल मूलेन दक्षिण हस्तेनोल्लिख्य)"
^ ^ ६ ^ ५ ^ ४ ^
! ! ! ! !
! ३ ! ! ! !२
! ! ! ! !
! <______१____ !
कि गयीं रेखाओंपर रेखाकरनेका कुश उदगाग्र रखें."( लेखासु तच्छकलं उदगग्रं निधाय)".कुंडको छतेहाथकी मुठीसे जलद्वारा अभिषिक्त करें."( कुंडं अद्भिः अभ्युक्ष्य)" रेखाओंपर रखा हुआ कुश तोडकर कुंडसे बहार अग्निकोणमें दूरीपर फैंक दें."( शकलं भंक्त्वा आग्नेयां निरस्य)" हाथ धोकर मौनव्रतसे मुक्त होवें." (पाणिं प्रक्षाल्य वाग्यतो भवेत्)".यजमानपत्नी संपुटपात्रमें निर्धूम अग्निको लाकर कुंडके अग्निकोणमें जमीनपर रखें."( पात्रयुग्मेन संपुटीकृत्य सुवासिन्या निर्धूमं अग्निं आहृतं कुंडादाग्नेयां निधाय)".
जुष्टो दमुना आत्रेयोवसुश्रृतोग्निस्त्रिष्टुप- एह्यग्ने राहूगणोगोतमोग्निस्त्रिष्टुप् अग्न्यावाहने विनियोगः- अक्षतानादाय* ॐजुष्टो दमुना अतिथिर्दुरोण इमं नो यज्ञ मुपयाहि विद्वान्| विश्वा अग्ने अभियुजो विहत्या शत्रूयता माभरा भोजनानि|| एह्यग्न इह होता निषीदादब्धः सुपुर एता भवानः| अवतां त्वा रोदसी विश्व मिन्वे यजामहे सौमनसाय देवान्|| इत्यक्षतैरावाह्य आच्छादनं दूरीकृत्य समस्त व्याहृतिनां परमेष्ठीप्रजापतिर्प्रजापतिर्बृहती अग्नि प्रतिष्ठापने विनियोगः{जहाँ अग्निके पञ्चदश संस्कार करना हों वहाँ अग्निका नाम सहित प्रतिष्ठापन नहीं होता क्योंकि अग्निके नामकरण संस्कारके वक्त नामकरण करके संस्कारित किया जाता हैं.} कुंडपर अग्निपात्र प्रदक्षिणरितिसे घुमाकर पश्चिमकी औरसे कुंडमें प्रतिष्ठित करें.(ॐभूर्भुवःस्वःबलवर्धननामाऽग्निं प्रतिष्ठापयामि)"अग्नि लानेके पात्रमें यजमान द्वारा तंडुल और जल डलायें.(अग्न्याहरणपात्रे साक्षतोदकं निषिच्य)"यजमान अपनी पत्नीको देनेका कोई उपहार देवें." किंचित् द्रव्यं मुक्त्वा तद् द्रव्यं सुवासिन्यैदापयेत् " काष्ठ और गोबरकंडोको प्रोक्षित करके अग्निपेटानेके लिए कुंडमें रखे वेणुधमनीसे अग्निको प्रदिप्त करें." (प्रोक्षितेंधनानिनिक्षिप्य वेणुधमन्या प्रबोध्य ध्यायेदेवम्)" चत्वारि श्रृंगा गोतमो वामदेवोग्निस्त्रिष्टुप् अग्निर्मूर्तिध्याने विनियोगः- ॐ चत्वारि श्रृंगा० स्मृत्योक्तमन्त्रैः- सप्तहस्त श्चतुःश्रृंगः… एवं रूपो हुताशनः|| इत्यग्निं ध्यात्वा". वैश्वानर शांडिल्यगोत्रः शांडिल्यासितदेवलेति त्रिप्रवरःभूमिमातः वरुणपितः उत्तानकुक्षे ललाटजिह्वः मेषध्वजः प्राङ्गमुखो मम सन्मुखो भव" इति बद्धाञ्जलिः सम्प्रार्थ्य"||अन्वादध्यात्- घृताक्तसमिद्द्वयं गृहित्वोत्थाय अस्मिन्नावाहिते अग्नौ जातवेदसमग्निमिध्मेन,प्रजापतिं प्रजापतिं चाधारदेवते आज्येन,अग्निषोमौ चक्षुषी आज्येन, आदित्यादि नवग्रहान् २८/८वारं वा अर्कादिसमित्(यव)तिलचर्वाज्य द्रव्यैः||अधिदेवता प्रत्यधिदेवताश्च ८/४वारं वा |क्रतुसंरक्षकदेवताः क्रतुसाद्गुण्यदेवताश्च ४/२वारं वा|प्रतिकुंडमश्वत्थनारायणं ॐअश्वत्थेव०इति मंत्रेण पलाशसमित्तिलाज्यैःप्रतिद्रव्यं १०८वारं|| तथा पूर्वकुंडे "ॐआनोभद्रा०इतिमंत्रेण विश्वान्देवान् चरुद्रव्येण १०८वारं|| दक्षिणकुंडे ॐआतुन०इति मंत्रेण गणपतिं तिलाज्याभ्यां प्रतिद्रव्यं १०८वारं||पश्चिमकुंडे इंद्राद्यष्टौ लोकपालान् तत्तन्मंत्रैः २८वारं तिलाज्याभ्यां||वास्तुं ॐवास्तोष्पते ध्रुवास्थूणां सत्रं सोम्यानां||द्रप्सोभेता पुरांशश्वतीनामिंद्रो मुनीनां सखा|||इति मंत्रेण शमीसमिच्चर्वाज्यद्रव्यैः प्रतिद्रव्यं २८वारं||उत्तरकुंडे श्रीवासुदेवं रुक्मणीं सत्यां सरस्वतीं च तत्तन्मंत्रेण प्रतिदैवतं प्रतिद्रव्यं १०८वारं पायसाज्याभ्यां||
प्रधान कुंडे ब्रह्मादि मंडलदेवताः प्रतिद्रव्यं एकैकवारं तिलाज्याभ्यां|| समस्तव्याहृतिभिः अष्टोत्तरशतवारं आज्येन,शेषेण अग्निं स्विष्टकृतमग्निं, ईध्मेन सन्नहनेन रुद्रं,अयासमग्निं देवान् विष्णुं अग्निं वायुं सूर्यं प्रजापतिं चैताः प्रायश्चित्तदेवताः आज्येन, (ब्रह्मा ते समिद्धे गृहित्वा) अयासमग्निंदेवान् विष्णुं अग्निं वायुं सूर्यं प्रजापतिं चैताः प्रायश्चित्तदेवताः आज्येन, पुनः यजमान: ब्रह्मणःहस्ताद् समिद्धद्वयेन- ज्ञाताज्ञातदोष निबर्हणार्थं त्रिवारमग्निं मरुतश्चाज्येन विश्वान् देवान् संस्रवेणांगदेवताः प्रधानदेवताः सर्वाः सन्निहिताः संतु अश्वत्थोद्यापन कर्मणा श्वोयक्ष्ये..समस्त व्याहृतिनां प्रजापतिर्प्रजापतिर्बृहती अन्वाधान समिद्ध होमे विनियोगः....
ॐभूर्भुवःस्वःस्वाहा- प्रजापतये इदं न मम.|| कुशकण्डिकाः- दायें हाथमें कुशोको लेकर जलसे कुंडसे ८ अंगुल छोड़कर कुंड के फिरते प्रदक्षिणरितिसे ईशानसे ईशानकोणतक जलधारा करैं." अग्नेरायतनात्सकाशादष्टांगुलिपरिमिते देशे ऐशानी दिशमारभ्य प्रदक्षिणं समन्तात्सोदककेन पाणिना त्रिः परिमृज्य"|| कुंडकी दूसरी परिधीपर पूर्वकी और एवं पश्चिममें ४/४ कुशों उदगाग्र रखें."तत्र प्राच्यां प्रतीच्यां च उदगग्रादर्भा:" दक्षिणमें और उत्तरमें ४/४ कुश पूर्वाग्र रखें."अवाच्यां उदीच्यांच प्रागग्राः, ते दर्भा अनियत संख्यया एकैकस्यांदिशि चत्वार श्चत्वार इत्येवं षोडशं वा" अग्निकी दक्षिणमें ब्रह्माजीकी पीठपर पूर्वाग्र एक कुश रखें." ततो अग्नेर्दक्षिणतो ब्रह्मासनार्थं" कुंडकी उत्तरमें कुंड समीपसे पूर्वकी और ईशानतक पूर्वाग्र कुशोंको पात्रासादनके लिए बीछायें. " उत्तरश्च पात्रासादनार्थं काँश्चित् प्रागग्रादर्भानास्तृणीयात्". अग्निकुंडके ईशान भागसे जहाँतक पात्रासादनके उत्तरीभागमें कुश बीछायें हों वहाँ तक तीनबार छते हाथसे जल छिंडके." अग्नेरैशानत स्त्रिरंभसा परिषिच्य(३)" उत्तरमें बीछायें हुए कुशोपर क्रमसे ईशानकोणतक दोनोंहाथोसे एकैक पात्रको पकडकर ; चरुस्थाली और प्रोक्षणी उलटी रखें." उत्तरास्तीर्णेषु दर्भेषु दक्षिण सव्य पाणिभ्यां क्रमेण चरुस्थालीप्रोक्षण्यौ" स्रुव और स्रुची उलटे रखें." स्रुवदर्वी" प्रणीता और घीकापात्र उलटा रखें." प्रणीताज्यपात्रे" १५समिद्धके साथ ३६ कुशोंका रज्जु उदगाग्र रखें. इध्मा(१५)बर्हिषी(१२×३=३६)"तंडुलाः(चावल)गोःदूग्धम्(गायकादूध)"उदगपवर्गं प्राक्संस्थं च न्युब्जान्यासादयेत्"
प्रोक्षणी संस्कारः- कुंडसमीप उलटा रखा हुआ प्रोक्षणीपात्रको छता करें."ततः प्रोक्षणीपात्रमुत्तानं कृत्वा" प्रादेशमात्रके प्रमाणसे दोकुशो प्रोक्षणीमें पूर्वाग्र रखें." तत्र प्रादेशमात्रे कुशद्वयरूपे पवित्रे निधाय" शुद्धकलश अथवा कमंडलुसे शुद्धजल प्रोक्षणीमें डालें." शुद्धाभिरद्भिस्तत्पात्रं पूरयित्वा" प्रोक्षणीमें गंधपुष्प रखें." गंधपुष्पादिक्षिप्त्वा"पूर्वाभिमुख होकर दो अन्य प्रादेशमात्र प्रमाणके कुशोंके अग्रभाग दायें अंगुठे और कनिष्ठिका से पकड़े तथा बाये हाथसे कुशमूलोंको पूर्ववत् पकडकर प्रोक्षणीका जल तीन बार उपर की और छींडके." अंगुष्ठ कनिष्ठिकाभ्यां उदगग्रे पृथकपवित्रे धृत्वा अपस्त्रिरुत्पूय" पात्रासादनमें रखे हुए उलटे पात्रोको छते करैं." पात्राणि उत्तानानि कृत्वा" प्रोक्षणीके जलसे उन दो पवित्रों द्वारा सभी आसादित पात्रोका तीन तीन बार प्रोक्षण करैं." त्रिर्त्रिः प्रोक्षेत्" प्रोक्षणी पात्रकेजलकी थोडीसी बूंद कलश या कमंडलुमें डालें." ता अपः किंचित्कमण्डलौ क्षिपेत्" हाथमें रखे हुए दोकुशोंको कलशमें छोड़ दे. ब्रह्माजीका गंधाक्षतपुष्पसे पूजन करैं. ब्रह्माणं गंधाक्षतपुष्पैरर्चयेत्" ॐब्रह्मजज्ञानं० प्रार्थना- ॐबृहस्पति र्ब्रह्मा ब्रह्मसदन आशिष्यते बृहस्पते यज्ञं गोपाय स यज्ञं पाहि स यज्ञपतिं पाहि समां पाहिति जपित्वा सर्वदा यज्ञ मना एव वर्तेत|| यजमान खडे होकर अग्निनारायणके पीछे अपने सामने प्रणीतापात्र प्रागग्र रखें." ततो यजमानः प्रणीतापात्रमग्नेः प्रत्यङ्ग निधाय" प्रणीतामें प्रादेशमात्र प्रमाणसे दो कुश पूर्वाग्र रखें." प्रणीतायां पवित्रे निधाय" जिस जलका प्रोक्षणीमें उत्पवन किया था उस जलको कलशमें या कमंडलमें ग्राह्य किया था; अतः कलश या कमंडलुके जलसे प्रणीताको पूर्ण भरैं. " उत्पूताभिरद्भिस्तत्पात्रं पूरयित्वा" प्रणीतामें गंधाक्षतपुष्प रखें." गंध पुष्पाक्षतान्क्षिप्त्वा" यजमान ब्रह्माजीसे प्रश्न करैं." ब्रह्मन्नपःप्रणेष्यामि? इति पृच्छेत्" ब्रह्माके स्थानपर वरणीय ब्राह्मण मनमें ॐभूर्भुवःस्वर्बृहस्पतिप्रसूतः" उचें स्वरमें - उच्चैः ॐ प्रणय" इत्यनुजानीयात्" यजमान(कर्ता हैं) वह पूर्णपात्र(प्रणीता) को वहाँसे लेकर उत्तरमें प्रोक्षणीके पीछे बीछायें हुए कुशोंपर रखें." कर्ता पूर्णपात्रं मुखसमुद्धृत्याग्नेरुत्तरतो दर्भेषु निधाय" ( प्रणीता अग्नयोर्मध्ये प्रोक्षणी स्थान मुत्तमम्| अन्यत्र स्थापिता तत्र कर्ता भवति ब्रह्महा||कु०भा०) अग्नि और प्रणीता रखनेकी जगहके बीच वाला जो अंतर हैं वह असंचरप्रदेश कहा गया हैं. वह प्रोक्षणी पात्र रखनेका उत्तम स्थान हैं. यहाँ पहले प्रोक्षणी का संस्कार होता हैं बादमें प्रणीताका; सवाल यह हैं कि प्रणिता और अग्निके बीचके प्रदेशमें प्रोक्षणी पात्र रखनेका कहा तो पहले प्रणीता उत्तरमें स्थित हो तो प्रणीता ओर अग्निके बीचका प्रदेश बनैंगा. परंतु यहाँ यह ध्यान दें की शुद्ध उत्तरमें प्रणीताको स्थापित करना हैं. प्रोक्षणीके उत्तरमें तो पहलेसे पात्रासादनमें आज्यस्थाली रखी हुई हैं. और प्रोक्षणीके दक्षिणमें चरुस्थाली रखी हुई हैं. तो वह जगह असंचर नहीं कहलायेंगा. जहाँ रिक्त स्थान हो वहीं असंचर स्थान हैं. अतः प्रोक्षणीके पीछे उत्तरमें प्रणीता रखें.अन्यथा यजमान या ( कुशकण्डिका कर्ता) पूर्णरूपसे दोषी बनता हैं. प्रणीतापात्रमें रखे हुए कुशोंको लेकर अन्य तदरूप कुशोंको पूर्वाग्र प्रणीतामें रखें." ते पवित्रे गृहित्वा अन्यैर्दर्भैराच्छादयेत्"
कुंड(अग्नि)के पश्चिममें प्रागग्र कुशोंपर चरुस्थाली रखें." ततः प्रत्यगग्नेः कुशेषु चरुस्थालीं निधाय" चरु स्थालीमें हाथमें रखे हुए दोकुशोंको प्रागग्र रखें." तत्र प्रागग्रे पवित्रे निधाय" मौन होते हुए तंडुल डालें."तंडुलानां निरुप्य" चरुस्थाली में रखे हुए कुशोंको तंडुलोपर रखें." ते पवित्रे निरुप्त तंडुलानामुपरि निधाय" मौन होते हुए कलश या कमंडलुके जलसे कुशोद्वारा तीन वार तंडुलोका प्रोक्षण करैं."तूष्णीं त्रिः प्रोक्षेत्" उन तंडुलमें पानी डालके तीनबार धुयें." त्रिः शूक्ली कुर्यात्"दो अलग अलग चरुस्थालीमें तंडुलोंको लेकर एक चरुस्थालीमें दोगुना गायका दूध डालें."ततो गोः दूग्धं निरुप्य" द्वितीये शुद्धजलमापूर्य|| उस चरुस्थालीके तंडुल कच्चे न रहैं और जल न जाय ऐसे सुपक्व पायसचरु अग्निपर पकायें."अविदग्धमन वस्रावित मंतः ऊष्मपक्वंसुश्रृतं चरुं पचेत्" चरुस्थालीमें से दोकुशोंको आज्यस्थालीमें प्रागग्र रखें." ततस्ते पवित्रे आज्यपात्रे निधाय" आज्यपात्र अपने सन्मुख रखें." तत्पात्रं पुरतः संस्थाप्य" आज्यस्थाली में गायकाघी डालें." तस्मिनाज्यमासिच्य" कुंडमेसे उत्तर में स्थित जलते हुए भस्मकेसाथअंगारे को किसीपात्रसे लेकर कुंडकी बहार उत्तरमें रखें." अग्नेरुत्तरतः स्थितांगारान् भस्मनासह अग्नेरुदक परिस्तरणाद् बहिर्निरुह्य"उन जलतें अँगारोपर घी गरम करनेके लिए आज्यस्थाली रखें." तेष्वाज्यपात्र मधिश्रित्य" कुशाग्रको अग्निमेंसे जलायें . कुशके जलें हुए भागपर जल छींडककर अंगुठेके मानसे जलेहुए भागको दोबार घीके पात्रमें डालें."ज्वलता दर्भोल्मुकेनावज्वल्यांगुष्ठपर्वमात्रं प्रक्षालितं दर्भाग्रद्वयं आज्ये प्रक्षिप्य" फिरसे उन्हीं कुशको जलाकर चरु और घीके आसपास ईशानसे ईशानकोणतक प्रदक्षिण रितिसे तीनबार घूमायें." पुनर्ज्वलता तेनैवदर्भोल्मुकेन चरुणा सह आज्यं त्रिः पर्यग्निं कृत्वा" वह कुशोंको अग्निमें डाल दें." तदुल्मुकं अपास्य" दाये कानपर जलका स्पर्श करैं." आपः स्पृष्वा" आज्यल्थालीको घी गरम हो जाने के बाद अग्निपरसे जमीनपर उतारकर उत्तरमें रखें." आज्यस्थालीं भुवि कर्षयित्वा उद्गुद्वास्य" अँगारेको पुनः कुंडमें डालें." अंगारान् प्रत्युह्य" दायें कानको जलका स्पर्श करैं." आपः स्पृष्ट्वा" दोकुशके अग्रभाग दायें हाथके अंगुठे और कनिष्ठिकासे पकडे़. तथा कुशमूलोंको बायें हाथके अंगुठे और कनिष्ठिका से पकडें." तत्रस्थमेवाज्यं अंगुष्ठ कनिष्ठिकाभ्यां पवित्राभ्यां" उन कुशोके मध्यभागसे एकवार घीको उपरकी और छींडके." प्रागैकवारं उत्पवनं चरेत् ॐ सवितुष्ट्वा प्रसव उत्पुना म्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः| इति मंत्रेण ऐकवारं" पुन: दोबार घीको कुशमध्योंसे उपरकी और छींडकें." द्वितूष्णीं उत्पूय" उन कुशोंको जलसे धुयें." ते पवित्रे अद्भिः प्रक्षाल्य" मनसे स्कंदाय स्वाहा बोलकर अग्निमें समर्पित करैं." अग्नौ प्रहरेत् तूष्णीं स्कंदाय स्वाहा- स्कंदाय इदं न मम"
कुंड(अग्नि)के पश्चिम भागमें जमीनपर जल छिंडके." अथाग्नेः पश्चात् परिस्तरणाद् बहिः आत्मनोग्रतो भूमिं प्रोक्ष्य" वहाँ पहलेसे बनाया हुआ १५ समिधोके साथ वेष्टित १२×३=३६कुशोंसे निर्मित रज्जु उदगाग्र रखें." तत्र बर्हिःसन्नहनीं रज्जुं वितस्तिमात्रं पंचदशमिध्मं प्रागग्रं सकृदावेष्टित उदगग्रं निधाय" कुंडकी पास उत्तरमें मृगचर्मका मुख पूर्वमें रहैं ऐसे या पूर्वाग्र कुशों रखें." प्राग उदगपवर्गं विरलं वा कुशान्नास्तीर्य" उन मृगचर्म या कुशोंपर आज्यस्थाली रखें." तस्मिन्नाज्यपात्रं निधाय" दायें हाथसे स्रुव और स्रुचीको लें." दक्षिण हस्तेन स्रुक् स्रुवौ गृहित्वा" बायें हाथमें कुछ कुशोंको लेकर कुशों सहित स्रुवस्रुचीको उलटेकरके अग्निपर तपायें." सव्येन कांश्चिदर्भान् आदाय सहैवाग्नौ प्रताप्य"स्रुचीको नीचे जमीनपर रखें." स्रुचं निधाय" (स्रुवेको बायें हाथमें रखें."स्रुवं वामहस्ते नीत्वा" दायें हाथसें कुशाग्रों द्वारा स्रुवका छिद्र प्रदक्षिणवत् तीनबार साफ करैं." दक्षिण हस्तेन स्रुवस्य बिलं दर्भाग्रैः प्रादक्षिण्येण प्रागादि प्रागपवर्गं त्रिः समृज्य" कुशोंके मूलोंसे स्रुवके दंड को नीचेकी तरफ तीनबार साफ करैं." ततो दर्भाणां मूलैर्दंडस्य अधस्ताव्वत्रिः संमृज्य"स्रुवको कलश या कमंडलुके जलसे कुशाग्रोंसे प्रोक्षित करें." अद्भिः प्रोक्ष्य") स्रुवको आज्यस्थालीसे उत्तरमें पूर्वकी और रखें." स्रुवं निष्टप्य आज्यस्थाल्या उत्तरतः"दायें कानको जलका स्पर्श करैं." उदकं स्पृष्ट्वा" उन कुशोंसे स्रुचीको भी स्रुवकी तरह संस्कारित करैं." तेरैवदर्भैः जुहूं चैवमेव संमृज्य" स्रुचीको स्रुवकी बायीं और रखें." स्रुवादुत्तरतो निधाय" जिस कुशोंसे स्रुव और स्रुचीके संस्कार किये वह कुशोंको जलसे धोकर अग्निमें समर्पित करैं."दर्भान् अद्भिः क्षालयित्वा अग्नौ प्रहरेत्" पकानेके लिए अग्निपर रखें हुए पायसचरुमें स्रुवेसे घी डालें."ततो श्रृतं चरुं स्रुव गृहितेनाज्येनाभिधार्य" चरुस्थालीको लेकर अग्निसे उत्तरकी औरसे अग्नि और घीकेपात्रके बीचमेंसे लेकर आज्यस्थालीकी दायीं और कुशोंपर रखें." उद्गुद्वास्य, अग्न्याज्ययोर्मध्येन नीत्वा आज्या दक्षिणतो बर्हिषि सांतरम् आसाद्य" जरुर हो( पायसमें घी कणकणमें मिश्र हों) तो फिरसे चरुमें घी डालें. या जरुर न हो तो न डालें."पुनरपि अभिधार्य (न वा अभिधार्य)"|| गंधाक्षतपुष्पसे अग्निका पूजन- "गंधाक्षतपुष्पैः अग्निमर्चयेत्" ॐ विश्वानिनो दुर्गहा जातवेदः|सिंधुं ननावा दुरिताति पर्षि|| अग्ने अत्रि वन्नमसा गृणानः| अस्माकं बोध्यविता तनूनां|| यस्त्वाहृदाकीरिणा मन्यमानः| अमर्त्यं मर्त्यो जोहवीमि||जातवेदो यशो अस्मासु धेहि| प्रजाभिरग्ने अमृतत्व मश्यां|| ॐभूर्भुवःस्वः बलवर्धननामाग्नये नमः सर्वोपचारार्थे गंधाक्षत पुष्पं समर्पयामि, धूपं आघ्रापयामि,दिपं दर्शयामि,( कुंड्द्बहिः नैवेद्यं निधाय) नैवेद्यं समर्पयामि, प्राणादि पञ्चग्रासैः निवेदयित्वा. { अग्निनारायणकी नैवेद्यान्त पूजन शास्त्रोचित हैं.} उपस्थानम्- पूर्वाह्नमें स्वस्तिक मुद्रासे,मध्याह्नमें दंडमुद्रासे,सायं व रात्रौ अब्जमुद्रासे,- ॐयस्मै त्वं सुकृते जातवेद उलोक मग्ने कृणव स्योनं| अश्विनं सुपुत्रिणं वीरवंतं गोमतं रयिं नशते स्वस्ति|| यजमान अपने ललाटमें चन्दनसे टीका करैं." आत्मानं चालंकृत्य" हस्तं प्रक्षाल्य" रज्जुमेंसे १५ समिधोंको निकालकर रज्जु वहाँ हि पश्चिममें रहनें दें." इध्मबंधन रज्जुं इध्मस्थाने निधाय, पाणिनेध्ममादाय" स्रुवेसे घी लेकर १५ समिधोके मूल,मध्य,और अग्रभागमें घी लगायैं." मूल मध्याग्रेषु स्रुवेण त्रिरभिधार्य" समिधोके मूल और मध्यभागके बीचमेंसे समिधो को पकड़कर खड़े रहैं( समिद्ध होमं मूर्ध्निहोमं लाजाहोमं तथैव च| पूर्णाहुतिर्वसोर्धारा: तिष्ठत्यैव हि कारयेत्) विनियोगः- अयंतेत्यस्य वामदेवो जातवेदाग्नि स्त्रिष्टुप् इध्महवने विनियोगः" ॐ अयंत इध्म आत्मा जातवेद स्तेनेध्यस्व वर्धयस्व चेद्धवर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा- जातवेदसे अग्नये इदं न मम" नीचे बैठकर घीकी आहुतियाँ देवें.|| स्रुवेणाज्यमादाय" कुंडमें वायव्यकोणसे अग्निकोणतक घृतधारा" अग्नेरायतनस्य वायव्यकोणमारभ्याग्नेयकोण पर्यंतम्" मनसा- ॐ प्रजापतये स्वाहा- प्रजापतये इदं न मम" नैर्ऋत्यकोणसे ईशानकोण तक घृतघधारा"मनसा ॐप्रजापतये स्वाहा- प्रजापतये इदं न मम" इत्याधार होमः"उत्तरभागमें पूर्वकी और" उत्तरपार्श्वे पूर्वभागे" ॐ अग्नये स्वाहा- अग्नये इदं न मम" दक्षिणभागमें पूर्वकी और." दक्षिणपार्श्वे पूर्वभागे" ॐसोमाय स्वाहा- सोमाय इदं न मम" इति चाक्षुषि होमः" संकल्पः-इदं सम्पादित आज्यद्रव्यं पायसद्रव्यं अन्वाधानोक्ता देवताभ्यश्च न मम इति सर्वत्र त्यागः|| स्रुवेसे स्रुचीमें घी रखें." स्रुवेण स्रुच्याज्यमुपस्तीर्य"नखका स्पर्श न हो ऐसे मध्यमा अनामिकाकी सहायतासे चरुमेंसे अंगुठेके पर्वपर आयें ईतना चरु हाथमोड़कर अंगुलियां बायीं ओर रहैं इसतरह से लेकर स्रुचीमें रखे." सग्रहमख कर्म हो तो पहले ग्रहमंडल होम होगा. ग्रहमंडल प्रधानदेवताके अंतर्गत देवता हैं." प्रथम प्रधानदेवता चरुभागमध्यादंगुष्ठपर्व मात्रं तिरश्चिनाभिरंगुष्ठमध्यमानामिकाभि: उदगग्राभिर्नखसंस्पर्शमकुर्वन्नवदाय दर्व्यामोपस्तीर्य" चरुमें से बतायी हुई रितिसे प्रागग्रअंगुलि रखकर अंगुष्ठपर्व पर आये इतना चरु लेकर स्रुचीमें रखें." ततश्चरुं प्रागग्राभिस्ताभिस्तथैवावदाय दर्व्यामोप्य" चरुस्थालीके चरुमें स्रुवेसे घी डालें." पात्रस्थं हविरभिधार्य" स्रुचीमें रखे हुए चरुमें स्रुवेसे घी डालें." दर्वीस्थमवत्तं चाभिधार्य" अग्निमें होमकरके त्याग का उच्चारण करें." विधूमज्वालाग्नौ ॐ आकृष्णेन० स्वाहा- सूर्याय इदं न मम"( वर्तमानमें कोई कोई याज्ञिक त्यागोच्चार नहीं करतें. यह शास्त्र मान्य नहीं हैं) त्यागोच्चार न करना हो तो आधार चक्षुषि होम( प्रजापतये (२) अग्नये० सोमाय०) के बाद इदं आज्यद्रव्यं चरुद्र्व्यं (आदि) या या यक्षमाण देवताः ताभ्यस्ताभ्यो(अन्वाधानोक्ता)देवताभ्यश्च परित्यक्तं न मम" का द्रव्यत्याग संकल्प पहलेसे करना शास्त्र संमत हैं.अथवा तो अवदानधर्मका होमके बाद- सूर्याय इदं न मम" का उच्चार करके द्रव्यत्याग संकल्प करैं.|| पूर्वके कुंडमें से काष्ठपर अग्निलेकर सभी कुंडमें अग्नि प्रदिप्त करैं||तस्मादग्निनाग्निःसमिध्यतइत्यग्निमुद्धृत्य प्रतिकुंडेषु स्थापयेत्||
पूर्वकुंडे- ग्रहहोमः|| प्रतिकुंडेषु~ ॐअश्वत्थेव०इति मंत्रेण अश्वत्थ नारायणं पलाश समित्तिलाज्यैः प्रतिद्रव्येण १०८/पूर्वकुंडे- ॐआनोभद्रा०इति मंत्रेण विश्वान्देवान् चरुणा१०८/दक्षिण कुंडे- ॐआतुन०इति गणपतिं तिलाज्याभ्यां प्रतिद्रव्येण १०८/ पश्चिमकुंडे- इंद्रादि अष्टौ लोकपालान् तत्तन्मंत्रैः तिलाज्याभ्यां प्रतिद्रव्येण२८/वास्तुं ॐवास्तोष्पते ध्रुवा०इति अन्वाधाने निर्दिष्ट मंत्रेण शमी समित् चरु आज्यैः प्रतिद्रव्येण २८/ उत्तरकुंडे- ॐइदं विष्णु०इति मंत्रेण वासुदेवं,ॐअधस्यायोषणा०इति मंत्रेण रुक्मणीं,ॐसत्या सत्ये०इति मंत्रेण सत्यभामां,ॐप्रक्षोद साधाय०इति मंत्रेण सरस्वतीं च पायस आज्याभ्यां प्रतिद्रव्येण १०८/ पूर्वकुंडे सर्वतोभद्रमंडलदेवता होमः तिलाज्येन १/१ॐभूर्भुवःस्वःस्वाहा-इति व्याहृतिभिः आज्येन १०८/ स्विष्टकृत होमः- स्रुच्याज्य मुपस्तीर्य हुतशेष पायसं पुरयित्वा अग्नौ ऐशानभागे जुहुयात्- ॐयदस्य कर्मणो त्यरीरिचं यद्वान्यून मिहाकरं अग्निष्ट त्स्विष्ट कृद्विद्वान्त्सर्वं स्विष्टं सुहुतं करोतु मे | अग्नये स्विष्टकृते सुहुत हुते सर्व प्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान्त्समर्धय स्वाहा- स्विष्टकृते अग्नये इदं न मम" जिससे समिद्धोको बांधीहुई थी वह (१२×३=३६) रज्जु खोलकर अग्निमें समर्पित करैं. इध्मबंधन रज्जुं विस्रस्य ॐरुद्राय स्वाहा- रुद्राय पशुपतये इदं न मम" आचार्यः- प्रायश्चित्ताहुतयः त्यागोच्चारणमात्रम् ॐअयाश्चाग्ने स्यनभिशस्तीश्च सत्य मित्व मया असि | अयासा वयसा कृतो यासन्हव्य मूहिषे यानो धेहि भेषजं स्वाहा-अयासे अग्नये इदं न मम" ॐअतो देवा अवंतु नो यतो विष्णु र्विचक्रमे | पृथिव्याः सप्तधामभिः स्वाहा- देवेभ्य इदं न मम" ॐ इदं विष्णुर्वि० स्वाहा- विष्णवे इदं न मम" ॐभूः स्वाहा- अग्नये इदं न मम"ॐभुवः स्वाहा- वायवे इदं न मम" ॐस्वः स्वाहा- सूर्य्याय इदं न मम"ॐभूर्भुवःस्वः स्वाहा-प्रजापतये इदं न मम" ततो ब्रह्मा- ॐअयाश्चाग्ने स्यनभिशस्तीश्च सत्य मित्व मया असि | अयासा वयसा कृतो यासन्हव्य मूहिषे यानो धेहि भेषजं स्वाहा-अयासे अग्नये इदं न मम" ॐअतो देवा अवंतु नो यतो विष्णु र्विचक्रमे | पृथिव्याः सप्तधामभिः स्वाहा- देवेभ्य इदं न मम" ॐ इदं विष्णुर्वि० स्वाहा- विष्णवे इदं न मम" ॐभूः स्वाहा- अग्नये इदं न मम"ॐभुवः स्वाहा- वायवे इदं न मम" ॐस्वः स्वाहा- सूर्य्याय इदं न मम"ॐभूर्भुवःस्वः स्वाहा-प्रजापतये इदं न मम" आचार्यः- ॐ अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु| अग्नेतदस्य कल्पयत्व गूं हित्वेत्थ यथा तथ गूं स्वाहा- अग्नये इदं न मम" ॐपुरुष संमितो यज्ञो यज्ञः पुरुष संमितः | अग्ने तदस्य कल्पयत्व गूं हित्वेत्थ यथा तथ गूं स्वाहा-अग्नये इदं न मम" ॐयत्पाकत्रा मनसा दीन दक्षान यज्ञस्य मन्वते मर्तासः| अग्निष्टद्धोता क्रतु विद्वि जानन्य जिष्ठो देवा गुं शोयजाति स्वाहा- अग्नये इदं न मम" ॐ यद्वोदेवा अति पातया निवाचा च प्रयुती देव हेळनं | अरायो अस्माँ अभिदुच्छु नायते न्यत्रा स्मन्मरुतस्तन्निधेतन स्वाहा- मरुद्भ्य इदं न मम" ( स्विष्टकृतहोमके बाद कोई भी आहुतियां नहीं रहती हैं इस लिये व्याहृतिहोम सर्वथा शास्त्र संमत नहीं हैं. क्योंकि " हुत शेषेण स्विष्टकृतं" सभी होम समाप्त होनेपर हुत शेष बनता हैं.स्विष्टकृतहोमके बाद प्रायश्चित्तहोम अनिवार्य हैं ) स्थापित देवतानां सायं पूजनं बलिदानम्|| अधिवसेत्||
शौनकोक्तं अश्वत्थोद्यापनं(अश्वत्थोपनयनम्)खंड५~ द्वितीयदिने प्रातः स्थापित देवतानां सकलशानां च पूजनं समाप्य|| अष्टकलशदेवता विसृज्य ब्राह्मणैः तान् ग्राहयित्वा तैः सह आचार्यः"पवमानःसुवर्जन इत्यनुवाकेनाष्टकलशोदकैः अश्वत्थं त्रिः परिषिच्य||किंचिदवशिष्टोदकान् कलशान् पूर्वस्थानेषु स्थापयेत्||
अथ पवमानःसुवर्जन:||ॐपवमानः सुवर्जनः||पवित्रेण विचर्षणिः||यः पोतास पुनातुमा||पुनंतुमादेवजनाः||पननंतुमनवोधिया||पुनंतुविश्वआयवः|| जातवेदःपवित्रवत्||पवित्रेणपुनाहिमा||शुक्रेणदेवदीद्यत्||अग्नेक्रत्वाक्रतू गूँ रनु||यत्ते पवित्रमर्चिषि||अग्नेविततमंतरा||ब्रह्मतेनपुनीमहे||उभाभ्यांदेवसवितः||पवित्रेणसवेनच||इदंब्रह्मपुनीमहे||वैश्वदेवीपुनतीदेव्यागात्|| यस्यैबह्वीस्तनुवोवीतपृष्ठाः||तयामदंतःसधमाद्येषु||वय गुं स्यामपतयोरयीणां||वैश्वानरोरश्मिभिर्मापुनातु||वातःप्राणेनेषिरोमयोभूः||द्यावापृथिवीपयसापयोभिः||ऋतावरीयज्ञीयेमापुनीतां||बृहद्भिःसवितस्तृभिः||वर्षिष्ठैर्देवमन्मभिः||अग्नेदक्षैःपुनाहिमा||येनदेवाअपुनत||येनापोदिव्यंकशः||तेनदिव्येनब्रह्मणा||इदंब्रह्मपुनीमहे||य:पावमानीरध्येति||ऋषिभिःसंभृत गुं रसं||सर्व गूं सपूतमश्नाति||स्वदितंमातरिश्वना||पावमानीर्योअध्येति||ऋषिभिः संभृत गुं रसं||तस्मैसरस्वतीदुहे||क्षीर गुं सर्पिमधूदकं|| पावमानीःस्वस्त्ययनीः||सुदुघाहिपयस्वतीः||ऋषिभिःसंभृतोरसः||ब्राह्मणेष्वमृत गुं हितं|| पावमानीर्दिशंतुनः||इमंल्लोकमथोअमुं||कामान्त्समर्धयन्तुनः||देवीर्देवैःसमाभृताः||पावमानीःस्वस्त्ययनीः||सुदुघाहिघृतश्चुतः||ऋषिभिःसंभृतोरसः||ब्राह्मणेष्वमृत गुं हितं||येन देवाः पवित्रेण||आत्मानं पुनते सदा||तेनसहस्रधारेण||पावमान्यःपुनंतुमा||प्राजापत्यंपवित्रं||शतोद्याम गुं हिरण्मयं||तेनब्रह्मविदोवयं||पूतंब्रह्मपुनीमहे||इंद्रःसुनीतीसहमापुनातु||सोमःस्वस्त्यावरुणःसमीच्या||यमोराजाप्रमृणाभिःपुनातुमा||जातवेदामोर्जयंत्या पुनातु|| इत्यनुवाकं त्रिवारं पठेत्||
(अथ अश्वत्थोपनयनम्)- संकल्पः "अश्वत्थस्य पुंसवनाद्युपनयनांतान्संस्कारान् व्याहृतिद्वारा करिष्ये||इति संकल्प्य|| ततो यजमान आचार्यो वा अश्वत्थ पश्चिमे स्थंडिलं कृत्वा संस्कार्य|| पवमाननामाग्निं प्रतिष्ठाप्य|| अग्निं ध्यात्वा||अन्वाधानं कुर्यात्- देवता परिग्रहार्थं अन्वाधानं करिष्ये|| घृताक्तासमित् द्वयं गृहित्वोत्थाय- अस्मिन्नन्वाहितेग्नौ जातवेदसमग्निमिध्मेन प्रजापतिं प्रजापतिं चाधारदेवते आज्येन अग्नीषोमौ चक्षुषी आज्येन|| अत्रप्रधानं अग्निं वायुं सूर्यं प्रजापतिं आज्येन प्रतिसंस्कारं अष्टवारं वा चतुर्वारं || शेषेण स्विष्टकृतमग्निमिध्मसन्नहनेन रुद्रमयासमग्निंदेवान् विष्णुमग्निंवायुं सूर्यं प्रजापतिंचैताः प्रायश्चित्तदेवता आज्येन(ब्रह्मणो- अयासमग्निं देवान् विष्णुमग्निंवायुंसूर्यँ प्रजापतिंचैताः प्रायश्चित्तदेवता आज्येन) ज्ञाता ज्ञात दोष निबर्हणार्थं त्रिवारमग्निं मरुतश्चाज्येन प्रधानदेवताः सर्वाः सन्निहिताः संतु- होमकर्मणाश्वोयक्ष्ये|| समस्तव्याहृतिनां परमेष्ठीप्रजापतिःप्रजापतिर्बृहति अन्वाधान समिद्धोमे विनियोगः- ॐभूर्भुवःस्वःस्वाहा- प्रजापतये इदं न मम|| परिसमुहनादि इध्माधानाद्याज्यभागान्तं कृत्वा|| आज्येन होमः- पुंसवनादि उपनयनान्त संस्काराः क्रमः(पुंसवनं/ अनवलोभनं/सीमंतं/जातकर्मं/ नामकर्मं/निष्क्रमणं/ अन्नप्राशनं/चूडाकरणं/ उपनयनम्) अश्वत्थस्य व्याहृतिद्वारा पुंसवनं करिष्ये.. ॐभूःस्वाहा-अग्नय इदं न मम||ॐभुवःस्वाहा-वायव इदं न मम||ॐस्वःस्वाहा- सूर्याय इदं न मम||ॐभूर्भुवःस्वः स्वाहा- प्रजापतय इदं न मम||एवं चतुर्वारं वाष्टवारं वा हुत्वा||अश्वत्थं स्पृशेत् ॐ वनस्पते शतवल्शो विरोह सहस्र वल्शाविवयंरुहेम||यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय||अस्याश्वत्थस्य पुंसवनं संस्कारं सम्पादयामि||एवं प्रतिसंस्कारं उपनयनान्तं समाप्य||यजमान अश्वत्थान्तरालेपटं धृत्वा सुमुर्हूते मंगलाष्टकपाठपुरःसरं||तदेव लग्नं सुदिनं तदेव०||पठिते अंतःपटं उत्तरे निःसार्य|| ध्रुवसूक्तं पठेत्||देवानांनुवयमिति नवर्चस्य बृहस्पतिर्दाक्षाण्यदितिर्वानुष्टुप् जपे विनियोगः- ॐदेवानांनुवयं जाना प्रवोचामविपन्यया|उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे||१||ब्रह्मणस्पतिरेतासं कर्मारइवाधमत्|देवानां पूर्व्येयुगेसतः सदजायत||२||
देवानां युगे प्रथमे सतः सदजायत
तदाशा अन्वजायंत तदुत्तान पदस्परि||३||भूर्जज्ञ उत्तानपदो भुव आशा अजायंत||अदितेर्दक्षो अजायत दक्षाद्वतिःपरि||४||अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव|तां देवा अन्वजायंत भद्रा अमृत बन्धवः||५||यद्देवा अदः सलिलेसु संरब्धा अतिष्ठत||अत्रावो नृत्यतामिव तीव्रोरेणुरपायत||६||यद्देवा तयो यथा भुवनान्य पिन्वत|अत्रा समुद्र आगुळहमा सूर्यमजभर्तन||७||अष्टौ पुत्रासो अदितेर्ये जाता स्तन्व१स्परि|देवा उपपैत्सप्तभिः परामार्ताडमास्यत्||८|| सप्तभिः पुत्रैरदितिरुपपैत्पूर्व्यं युगं|प्रजायै मृत्यवे त्वमार्तांडमाभरम्||९|| शौनकोक्तं अश्वत्थोद्यापनं(अश्वत्थोपनयनम्)खंड६~ ये यज्ञेनेतिवर्गपञ्चकं पठेत्- ॐये यज्ञेन दक्षिणयासमक्ता इंद्रस्य सख्यममृतत्वमानश|तेभ्यो भद्रमंगिरसो वोऽअस्तु प्रतिगृभ्णीत मानवं सुमेधसः||य उदाजन्पितरो गोमयं वस्वृतेनाभिंदन्परिवत्सरेवलं|दीर्घायुत्वमंगिरसो वो अस्तु प्रतिगृभ्णीत मानवं सुमेधसः|| यऽऋतेन सूर्यमारोहयन्दिव्य प्रथयन्पृथिवीं मातरं वि|सुप्रजास्त्वमंगिरसो वो अस्तु प्रतिगृभ्णीत मानवं सुमेधसः||अयं नाभा वदति वल्गुवो गृहे देव पुत्रा ऋषयस्तच्छृणोतन|सुब्रह्मण्यमंगिरसो वो अस्तु प्रतिगृभ्णीत मानवं सुमेधसः||विरूपास इदृषयस्त इद्गंभीरवेपसः| ते अंगिरसः सूनवस्ते अग्नेःपरिजज्ञिरे||१||ये अग्नेः परिजज्ञिरे विरूपासो दिवस्परि|नवग्वोऽनुदशग्वो अंगिरसस्तमः सचादेवेषु मंहते|इंद्रेण युजानिः सृजंतवाघतो व्रजं गोमंतमश्विनं||सहस्रंमे ददतो अष्टकर्ण्य:१श्रवोदेवेष्वक्रत|प्रनूनं जायतामयंमनुस्तोक्मेवरोहतु|| यः सहस्रं शताश्वं सद्योदानाय मंहते|न तमश्नोति कश्चन दिव इव सान्वारभं||सावर्ण्यस्य दक्षिणा विसिंधुरिव पप्रथे|उतदासापरि विषेस्मद्दिष्टीगोपरीणसा||यदुस्तुर्वश्चमामहे|सहस्रदा ग्रामणीर्मारिषन्मनुः सूर्येणास्ययतमानै तु दक्षिणा||सावर्णेर्देवाः प्रतिरंत्वायुर्यस्मिन्नश्रांता असनामवाजं||२||परावतो ये दिधिषंत आप्यं मनु प्रीतासोजनिमा विवस्वतः|ययातेर्येन हुष्यस्य बर्हिषि देवा आसते ते अधिब्रुवंतुनः||विश्वाहिवोनमस्यानि वंद्यानामानि देवा उत यज्ञियानिवः|येस्थजाता अदितेरद्भ्यस्परि ये पृथिव्यास्तेम इह श्रुताहवं||येभ्यो माता मधुमत्परिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः|उक्थ शुष्मान्वृषभरान्त्स्वप्नसस्ताँऽआदित्याँ अनुमदा स्वस्तये||सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृतादधिरे दिवि क्षयं|ताँऽआविवास नमसा सुवृक्तिभिर्महोऽआदित्याँ आदितिं स्वस्तये||को वः स्तोमंराधति यं जुजोषथ विश्वेदेवासो मनुषो य तिष्ठन| को वोध्वरं तु विजाता अरंकरद्योनः पर्षदत्यंहः स्वस्तये||येभ्यो होत्रां प्रथमामायेजेमनुः समिद्धाग्निर्मनसा सप्तहोतृभिः| त आदित्याऽअभयं शर्म यच्छत सुगानः कर्त सुपथा स्वस्तये||य ईशिरे भुवनस्य प्रचेतसो विश्वस्यस्थातु र्जगतश्चमंतवः|तेनः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये|| भरेष्विंद्रं सुहवं हवामहेंहोमुचं सुकृतं दैव्यं जनं|अग्निं मित्रं वरुणं सातयेभगं द्यावापृथिवी मरुतः स्वस्तये||सुत्रामाणं पृथिवींद्यामनेहसं सुशर्माणमदितिं सुप्रणीतिं| दैवीं नावं स्वरित्रामनागसमस्रवंतीमारुहेमा स्वस्तये||४||विश्वे यजत्राऽअधिवोचतोत ये त्रायध्वंनोदुरेवायाऽअभिह्रुतः|सत्ययावो देवहूत्या हुवेम शृण्वतो देवाऽअवसे स्वस्तये||अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः| आरे देवा द्वेषो अस्मद्युयोतनोरुणः शर्मयच्छता स्वस्तये||अरिष्टः समर्तो विश्व एधते प्रप्रजाभि र्जायते धर्मणस्परि|यमादित्यासोनयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये||यं देवासोवथवाजसातौ यं शूरसातामरुतोहिते धने|प्रातर्यावाणं रथमिंद्रसानसिमरिष्यंतमारुहेमा स्वस्तये||स्वस्तिनः पथ्या सुधन्व सुस्वस्तय३प्सुवृजनेस्वर्वति|स्वस्तिनः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन||स्वस्तिरिद्धि प्रपथे श्रेष्ठारेक्णस्वत्यभियावाममेति|| सानो अमासो अरणेनिपातु स्वावेशा भवतु देवगोपा| एवाप्लतेःसूनुरवीवृधद्वो विश्व आदित्याऽअदिते मनीषी||
ईशानासोनरो अमर्त्येनास्ताविजानो दिव्योगयेन||५|| इति पठित्वा||कौपीनं समर्येत्- युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मंतवोहसर्गाः|वासिरमृतानि विश्व ऋतेन मित्रावरुणा सचेथे||यज्ञोपवीतम्-यज्ञोपवीतं परमं पवित्रं०||कनकमयीं वा दर्भमयीं त्रिरावर्त्य मेखलाम्-ॐइयं दुरुक्तात्परिबाधमानाच्छर्म वरुथं पुनतीन आगात्|प्राणापानाभ्यां बलमाभरंती प्रिया देवानां सुभगा मेखलेयं||ऋतस्य गोप्त्री तपसः परस्पीघ्नती रक्षः सहमाना अरातीः|सानः समंतमनुपरेहि भद्रया भर्तारस्ते मेखले मारिषाम||
दंडम्- ॐस्वस्तिनो मिमीता०||कृष्णाजिनं वा कम्बलमयमासनम्- ॐमित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वी स्थविरं समिद्धं|अनाहस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधेहं|| क्षौमंकार्पासकंवस्त्रमवगुंठ्यसप्रणवां सव्याहृतिकां सशिरस्कां(ॐआपोज्योतिरसोमृतं ब्रह्म भूर्भुवःस्वरोम्)गायत्रीं अश्वत्थं स्पृष्ट्वा उपदेशवत् पठेत्|| इत्युपनयनम्||
शौनकीयं अश्वत्थोद्यापनं(शेष- अथोपनयनम्)खंड७~देशकालौ संकीर्त्य अस्य अश्वत्थस्य महाम्न्न्यादि समावर्तनान्तान् संस्कारान् व्याहृतिद्वारा करिष्ये... महाम्न्न्यादि समावर्तनान्त संस्काराः क्रम(महानाम्नीव्रत,महाव्रत,उपनिषदव्रत,गोदानव्रत,केशान्त संस्कार,समावर्तन संस्कार)
अश्वत्थस्य व्याहृतिद्वारा महानाम्नीव्रत संस्कारं करिष्ये...ॐभूः स्वाहा-अग्नय इदं न मम|ॐभुवः स्वाहा-वायव इदं न मम||ॐस्वःस्वाहा-सूर्याय इदं न मम||ॐभूर्भुवःस्वःस्वाहा-प्रजापतय इदं न मम||एवं अष्टवारं वा चतुर्वारं पूर्वाहुतक्रमानुसारेण हुत्वा|| अश्वत्थं स्पृशेत्-ॐ वनस्पते शतवल्शो विरोह सहस्र वल्शाविवयंरुहेम|यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय||अस्याश्वत्थस्य महानाम्नीव्रत संस्कारं सम्पादयामि||एवं प्रतिसंस्कारं समावर्तनान्तं समापयेत्|| कनककुंडले समर्पयेत्- ॐअश्मन्नस्तेजोसि श्रोत्रं मे पाहि||आभूषणानि-ॐ आयुष्य वर्चस्यं०|| उच्चैर्वाजि पृतनाषाट् सभासाहं धनंजयं|सर्वाःसमग्रा ऋद्धयो हिरण्येस्मिन्समाहिताः||शुनमहं हिरण्यस्य पितुर्मानेवजग्रभ|तेन मां सूर्यत्वचमकरं पूरुषुप्रियं||सम्राजं च विराजंचाभिष्टिर्याच मे ध्रुवा|लक्ष्मी राष्ट्रस्य या मुखेतया मामिंद्र संसृज||अग्नेःप्रजातं परियद्धिरण्यममृतं जज्ञे अधिमर्त्येषु|य एनद्वेद स इदेनदर्हति जरामृत्युर्भवति यो बिभर्ति||१||यद्वेद राजावरुणो यदुदेवी सरस्वती|इंद्रो यद्वृत्रहा वेद तन्मे वर्चस आयुषे||न तद्रक्षांसि न पिशाचाश्चरंति देवानामोजः प्रथमजंऽह्ये३तत्|यो बिभर्ति दाक्षायणा हिरण्यं स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः||यदाबन्धन्०||घृतादुर्लुप्तं मधुमत्सुवर्णं धनंजयं धरुणं धारयिष्णु|ऋणक्सपत्नादधरांश्च कृण्वदारोह मां महते सौभगाय||प्रियं मा कुरु देवेषु प्रियं राजसु मा कुरु|प्रियं विश्वेषु गोप्त्रेषु मयि धेहि रुचारुचं||अग्निर्येन विराजति सूर्यो येन विराजति|विराज्येन विराजति तेनास्मान्ब्रह्मणस्पते विराज समिधं कुरु|| कौपिनं मेखलां च विसृज्य||ममाग्नेति सूक्तं पठेत्- ॐममाग्ने वर्चो विहवेष्वस्तु वयंत्वेंधानास्तन्वं पुषेम|मह्यं नमंतां प्रदिशश्च तस्रस्त्वयाध्यक्षेण पृतना जयेम|| मम देवा विहवे संतु सर्व इंद्रवंतो मरुतो विष्णुरग्निः|ममांतरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन्||मयि देवा द्रविणमायजंतां मय्याशीरस्तु मयि देवहूतिः|दैव्या होतारोवनुषंत पूर्वेरिष्टाः स्यामतन्वा सुवीराः||मह्यं यजंतु मम यानि हव्याकूतिः सत्यामनसोमे अस्तु|एनो मानिगांकतमच्चनाहं विश्वेदेवासो अधिवोचतानः||देवीःषळुर्वीरुरुन: कृणोत विश्वेदेवास इह वीरयध्वं|माहास्महि प्रजया मा तनूभिर्मारधामद्विषते सोमराजन्||अग्नेमन्युं प्रतिनुदन्परेषामदब्धो गोपाः परिपाहिनस्त्वं|प्रत्यंचोयंतुनिगुतः पुनस्ते३मैषां चित्तं प्रबुधां विनेशत्||धाता धातॄणां भुवनस्ययस्पतिर्देवं त्रातारमभिमातिषाहं|इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पांतु यजमानंन्यर्थात्||उरूव्यचानो महिषः शर्म यं सदस्मिन्हवे पुरुहूतः पुरुक्षुः|सनः प्रजायै हर्यश्व मृळयेंद्रमानोरीरिषोमापरादाः||येनः सपत्ना अपते भवंत्विंद्राग्निभ्यामवधामहेतान्|वसवो रुद्रा आदित्या उपरिस्पृशंमोग्रंचेतारमधिराजमक्रन्||अर्वांचमिंद्रममुतो हवामहे योगोजिद्धनजिदश्व जिद्यः|इमं नो यज्ञं विहवे जुषस्वास्य कुल्मोहरिवो मे दिनं त्वा||इति समावर्तनं||
ममाग्नेति सूक्तं पठित्वा|| स्विष्टकृदादि होम शेषं समाप्य|| चतुर्कुंडेषु ॐ यो जागारतमृचः कामयंते योजागारत मयं सोम| आहत वाहमस्मि सख्ये न्योकाः अग्नि जागारतमृत कामयंते अग्नि जागारतमुसामा नियंति | अग्नि जागारत भयं सोम आहतवाहमस्मि सख्ये न्योकाः जागर्षि यत्र यजते हविष्मान् इदं हविः श्रद्धानो जुहोमितेन पासि गुह्यं नाथ गोनां || इत्यनेनअग्न्युत्थापनं कृत्वा||अग्निं ध्यात्वा||अग्नेः परितस्त्रिवारं सोदकेन पाणिना परिसमुहनं||त्रिवारं पर्युक्षणं च कृत्वा||अग्निर्ब्रह्माणौ च संपूज्य||आज्यं संस्कृत्य||उत्पूय अवेक्ष्य||आज्येन प्राणायस्वाहेत्यादि०||
(अथ अश्वत्थ विवाहम्)~ तत्र अश्वत्थ अलवाले शतकुंभमितिं शुद्धजलं क्षिप्त्वा...दुग्ध-मधु-घृतकुंभैश्च सिक्त्वा वस्त्रयुग्मेन अश्वत्थ तुलस्यादि शाखा वेष्टयित्वा||
अश्वत्थायोष्णिषं वस्त्रयुग्मं||तुलस्यै कंचुकी वस्त्रयुग्मं कंठभूषणं मंगलसूत्रं मौक्तिकं कर्णपादभूषणानि च दत्वा||
देशकालौ संकीर्तनान्ते अश्वत्थस्य विवाह विधिं करिष्ये.... पूर्वसंस्कार होमस्थंडिलोत्तर प्रदेशे स्थंडिलं निर्माय "योजकनामाग्निं" प्रतिष्ठाप्य|| अग्निं ध्यात्वा अन्वादध्यात्- देवता परिग्रहार्थं अन्वाधानं करिष्ये|| अन्वाधानम्* अस्मिन् योजकनामाग्नौ जातवेदसमग्निं इध्मेन, प्रजापतिं प्रजापतिं चाधारदेवते आज्येन, अग्निषोमौ चक्षुषी आज्येन||अत्र प्रधानं ब्रह्माणं "द्वासुपर्णेति मंत्रेण अष्टोत्तरशतवारं तिलाज्य द्रव्येण||तथा प्रजापतिं महाव्याहृतिभिः अष्टोत्तरशतवारं तिलाज्य द्रव्येण|| शेषेण अग्निं स्विष्टकृतं अग्निमिध्मसन्नहनेन रुद्रमयासं अग्निं देवान् विष्णुमग्निं वायुंसूर्यं प्रजापतिं चैताः प्रायश्चितार्थं अंगप्रधानार्थादेवता आज्येन, पुनः ब्रह्मन्वारब्धेन अयासमग्निं देवान् विष्णुमग्निं वायुं सूर्यं प्रजापतिं आज्येन, यजमानः- ज्ञाताज्ञात दोष निबर्हणार्थं त्रिवारमग्निं मरुतश्चाज्येन, विश्वान्देवान् संस्रवेणांग देवताः प्रधान देवता सर्वाः सन्निहिताः सन्तु अश्वत्थविवाह कर्मणः यक्ष्ये , समस्त व्याहृतिनां प्रजापतिर्प्रजापतिर्बृहति अन्वाधान समिद्धोमे विनियोगः, ॐभूर्भुवःस्वः स्वाहा-प्रजापतये इदं न मम|| परिसमूहनादि इध्माधानाद्याज्यभागान्तं कृत्वा|| तिलाज्येन~ ॐद्वासुपर्णेतिमंत्रेण१०८/ ॐभूर्भुवःस्वःस्वाहा१०८/ होमं समाप्य|| तुलस्यश्वत्थयोरंतराले पटं धृत्वा- मंगलपद्यानि पठित्वांतःपटं उत्तरे निःसार्य||तयो श्चतुरः शाखामयान् हस्तान् "ॐगृभ्णामीति"मंत्रेण योजयेत्||ततः स्विष्टकृदादि होम शेषं समाप्य|| अश्वत्थं तुलसीं च पुरुषसूक्तेन षोडशोपचारैः सम्पूज्य|| प्रार्थयेत्- अश्वत्थ त्वं जगन्नाथः पुरादेवै र्विनिर्मितः|पापात्संत्राहिनो देव पुण्यं देहि महाफलं||क्षीरो दधि समुद्भुते तुलसिहरिवल्लभे| अश्वत्थोद्यापनं फलं" देहि मह्यं सदाशिवे||
स्थापित देवतानां उत्तरपूजां बलिदानं च क्षेत्रपालबलीन्दत्वा सर्वेकुंडे पूर्णाहूतिं हुत्वा कर्म शेषं समाप्य||पूर्वे स्थापिताष्टकलशोदकेन दूर्वापल्लवैः सपत्नीकं यजमानं अभिषिंचेयुः|| आनोभद्रेति दर्शचसूक्तं- अस्यवामस्येति द्विपञ्चाशदृचकं सूक्तं- परोमात्रयेति दशर्चसूक्तं- मुंचामित्वेति पञ्चर्चसूक्तं- समुद्रज्येष्ठा इत्यादयः|| सुरास्त्वामभिषिंचंत्वित्यादयः|| एवमभिषिक्तो यजमानः तिलकादि धृत्वा देवताग्निं च विसृज्य|सोपस्करं पीठादिनाचार्याय गां च दत्वा||शताधिकान्ब्राह्मणान्संभोज्य|| आशिषो गृहित्वा||अनेन अश्वत्थोद्यापनेन श्रीकृष्णः प्रीयतामिति संपूर्णतां वाचयित्वा इष्टजनैः सह भुंजीत्||
ॐस्वस्ति||पु ह शास्त्री|उमरेठ||
टिप्पणियाँ
एक टिप्पणी भेजें